मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 6, कुल 111 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ३ पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥ पारिपार्श्विकः—आर्यमिश्राः प्रमाणम् । सूत्रधारः—तेन हि त्वरतां भवान् । शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् । देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ॥ ३ ॥ (इति निष्क्रान्तौ ।) प्रस्तावना । (ततः प्रविशति बकुलावलिका ।) बकुलावलिका—आणत्तम्हि देवीए धारिणीए । अइरप्पउत्तोव- १. आज्ञाप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्य- कवेः।क्रियायां कृतौ रूपके। कथं बहुमान आदरातिशयः कथनमीक्ष्यते॥विवेकभ्रस्तं विवेकदुर्बलम् । विवेकशून्यमित्यर्थः । क्रियाविशेषणं चैतत् । पुराणमित्यादि । सर्वं काव्यं कवेः कर्म । कृतिरित्यर्थः । पुराणमित्येव पुराणत्वादेव साधु रम्यं न भवति । नवमिति च नवत्वादेव अवद्यं गर्ह्यं न भवति । किंतु सन्तो विद्वांसः परीक्ष्य पुराणं नवं च काव्यं गुणतो दोषतश्च परामृश्य अन्यतरत्तयोरेकं पुराणं नवं वा । गुणयुक्तमित्यर्थः । भजन्ते । स्वीकुर्वन्तीत्यर्थः । मूढोऽज्ञस्तु परप्रत्य- यनेयबुद्धिः परस्यान्यस्य प्रत्ययेन ज्ञानेन नेया प्राप्या बुद्धिर्यस्य स तथोक्तः । अनेन कविकव्यप्रशंसा कृता ॥ शिरसेत्यादि । शिरसा मूर्ध्ना प्रथमगृहीतां पूर्वस्वीकृताम् । शिरसा ग्रहणेन भक्त्यतिशयो गम्यते । परिषदः सभाया आज्ञां शासनं कर्तुं निर्वर्तयितुमिच्छाम्यभिलषामि। अत्रोपमामाह—धारिण्या देव्याः। धा- रिणी नाम कथानायकस्य पत्नी । तस्या आज्ञां सेवादक्षः परिचर्यानिपुणोऽयं पुरोवर्ती परिजन इव । परिचारको जनः परिजनः । अनेन पात्राक्षेपहेतुः प्रयोगातिशयो नाम मुखाङ्गमुक्तं भवति ॥ प्रस्तावना ॥ कविरिदानीमङ्कमारभमाणः कथोपयो- गितया प्रथमं मिश्रविष्कम्भं नामार्थोपक्षेपकं प्रस्तौति—ततः प्रविशतीत्या- दिना । आज्ञाप्तास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं नाम नाट्यमन्त- रेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तस्मात्तावत्सङ्गीतशाळां