मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 7, कुल 111 में से
संदर्भ में पढ़ें४ मालविकाग्निमित्रे देसं छलिअं णाम णट्टअं अन्तरेण कीरिसी मालविअत्ति णट्टाअरिअं अज्जगणदासं पुच्छिदुं । ता दाव संगीतसालं गच्छम्मि (इति परिक्रामति ।) (ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ।) प्रथमा---(द्वितीयां दृष्ट्वा ।) हँला कौमुदीए, कुदो दे इअं धीरदा । जं समीवेण वि अदिक्कमन्ती इदो दिट्ठिं ण देसि । द्वितीया---अम्हो बउलावलिआ । सहि, इदं देवीए सिप्पिस- आसादो आणीदं णाअमुद्दासणाहं अङ्गुलीअअं सिणिद्धं णिज्झा- अन्ती तुह उवालम्भे पडिदम्हि । प्रथमा---(विलोक्य ।) ठाणे सज्जदि दिट्ठी । इमिणा अङ्गुलीअ- एण उत्थिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहत्थो । द्वितीया---हँला, कहिं पत्थिदा सि । मन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तत्तावत्सङ्गीत- शालां गच्छामि । १. सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यतिक्रामन्तीतो दृष्टिं न ददासि । २. अहो बकुलावलिका ! सखि, इदं देव्याः शिल्पिसकाशादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि । ३. स्थाने सज्जति दृष्टिः । अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेऽग्रहस्तः । ४. 'सखि, कुत्र प्रस्थितासि । गच्छामि। अन्तरेणेत्ययं निपात उद्देशार्थे वर्तते। छलिकं नाम नाट्यविशेष इत्यर्थः। तथा चोक्तम् --'तदेव च्छलिकं नाम साक्षाद्यदभिनीयते। व्यपदिश्य पुरावृत्तं स्वा- भिप्रायप्रकाशकम्॥' इति ॥ सखि कौमुदिके, कुतस्त इयं धीरता । यत्समीपेनाप्यति- क्रामन्तीतो दृष्टिं न ददासि ॥ अहो बकुलावलिका । सखि, इदं देव्याः शिल्पिसका- शादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती पश्यन्ती तवोपालम्भे प- तितास्मि ॥ स्थाने सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेऽग्रहस्तः॥ सखि, कुत्र प्रस्थितासि ॥ देव्या एव वचनेन नाटकाचार्यमार्यगणदासं