भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 8, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 8

प्रथमोऽङ्कः । ५ प्रथमा देवीए एव वअणेण नाडआआरिअं अज्जगणदास देखिदु । उवदेसग्गहणे कीरिसी मालविअत्ति । द्वितीया—२सेहि, ईरिसेण वावारेण असंणिहिदा वि सा कहं भटुणा दिट्ठा । प्रथमा—३आम । सो जणो देवीए पस्सगदो चित्ते दिट्ठो । द्वितीया—४कँहं विअ । प्रथमा—५सुँणु । चित्तसालं गदा देवी पच्चग्गवण्णराअं चित्तलेहं आआरिअस्स ओलोअन्ती चिट्ठदि । भट्ठा अ उवट्ठिदो । द्वितीया—६तैदो तदो । प्रथमा—७उँवआराणन्तरं एकासणोवविट्ठेण भटुणा चित्तगदाए देवीए परिअणमज्झगदं आसण्णदारिअं देखिअ देवी पुच्छिदा । द्वितीया—८किं ति । १. देव्या एव वचनेन नाट्याचार्यमार्यगणदासं द्रष्टुम् । उपदेशग्रहणे कीदृशी मालविकेति । २. सखि, ईदृशेन व्यापारेणासंनिहितापि सा कथं भर्त्रा दृष्टा । ३. आम । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः । ४. कथमिव । ५. शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्याव- लोकयन्ती तिष्ठति । भर्ता चोपस्थितः । ६. ततस्ततः । ७. उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजन- मध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा । ८. किमिति । द्रष्टुम्। उपदेशग्रहणे कीदृशी मालविकेति ॥ सखि, ईदृशेन व्यापारेणासंनिहितापि सा कथं भर्त्रा दृष्टा ॥ आमेल्यभ्युपगमे । स जनो देव्याः पार्श्वगतश्चित्रे दृष्टः ॥कथमिव॥ शृणु। चित्रशालांगता देवी प्रत्यग्रवर्णरागां चित्रलेखामार्यास्यावलोकयन्ती तिष्ठति। भर्ता चोपस्थितः॥ ततस्ततः ॥ उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नदारिकां दृष्ट्वा देवी पृष्टा ॥ किमिति॥ अपूर्वेयं दारिका,