भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 69, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 69

६६ मालविकाग्निमित्रे देवी—¹अह्नो, भट्ठा । (इत्युत्थातुमिच्छति ।) राजा—अलमलमुपचारयन्त्रणया । अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बि । चरणं रुजा परीतं कलभाषिणि मां च पीडयितुम् ॥ ३ ॥ धारिणी—²जेदु अज्जउत्तो । परिव्राजिका—विजयतां देवः । राजा—(परिव्राजिकां प्रणम्योपविश्य ।) देवि, अपि सह्या वेदना । धारिणी—³अज्ज अत्थि मे विसेसो । (ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्ठः संभ्रान्तो विदूषकः ।) विदूषकः—⁴परित्ताअदु परित्ताअदु भवं । सप्पेणह्मि दट्ठो । (सर्वे विषण्णाः ।) राजा—कष्टं कष्टम् । क्व भवान्परिभ्रान्तः । विदूषकः—देविं⁵ देखिस्सं ति आआरपुप्फग्ग्रहणकारणादो पमदवणं गदोह्मि । देवी—⁶हद्धि हद्धि । अहं एव बह्मणस्य जीविदसंसअनिमित्तं जादह्मि । १. अहो, भर्ता । २. जयत्वार्यपुत्रः । ३. अद्यास्ति मे विशेषः । ४. परित्रायतां परित्रायतां भवान् । सर्पेणास्मि दष्टः । ५. देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि । ६. हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि । रमणीयं कथावस्तु । ततस्ततः ॥ अहो, भर्ता ॥ अनुचितेनेति । स्पष्टोऽर्थः॥ जयत्वा- र्यपुत्रः॥अद्यास्ति मे विशेषः ॥ तत इति । यज्ञोपवीतेन बद्धोऽङ्गुष्ठो यस्य स तथोक्तः। अत्र कल्पनाया गम्यमानत्वाच्चलनं नाम संध्यङ्गमुक्तं भवति ॥ परित्रायतां परित्रा- यतां भवान् । सर्पेणास्मि दष्टः ॥ देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि ॥ हा धिक् हा धिक् । अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि ॥