मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 72, कुल 111 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ६९ (प्रविश्य ।) जयसेना—जेदुं भट्टा । धुवसिद्धी विष्णावेदि । उदकुम्भवि- हाणेण सप्पमुद्दिअं किंपि कप्पिदव्वं । तं अण्णेसीअदु त्ति । देवी—इदं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि णं । (इत्यङ्गुलीयकं ददाति ।) (प्रतीहारी गृहीत्वा स्थिता ।) राजा—कर्मसिद्धावाशु प्रतिपत्तिमानय । प्रतीहारी—जं³ देवो आणवेदि । परिव्राजिका—यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः । राजा—भूयादेवम् । (प्रविश्य ।) जयसेना—जेदुँ⁴ देवो । णिवुत्तविसवेगो गोदमो मुहुत्तेण पकिदित्थो संवृत्तो । देवी—⁵दिट्ठिआ । प्रतीहारी—⁶एसो उण अमच्चो वाहतओ विण्णावेदि । रा- अकज्जं बहु मन्तिदव्वं । दंसणेण अणुग्गहं इच्छामि त्ति । १. जयतु भर्ता । ध्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्विष्यतामिति । २. इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतत् । ३. यद्देव आज्ञापयति । ४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः । ५. दिष्ट्या । ६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्यं बहु मन्त्रयित- व्यम् । दर्शनेनानुग्रहमिच्छामीति । सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि- ष्यतामिति ॥ इदं सर्पमुद्रितमङ्गुलीयकम् । पश्चान्मम हस्ते देह्येतद् ॥ यद्देव आज्ञाप- यति जयतु देव । गौतमो मुहूर्तेन प्रकृतिस्थ संवृत्त दिष्ट्या ॥