मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 73, कुल 111 में से
संदर्भ में पढ़ें७० मालविकाग्निमित्रे देवी—^१गच्छदु अज्जउत्तो कज्जसिद्धीए । राजा—आतपाक्रान्तोऽयमुद्देशः । शीतक्रिया चास्या रुजः प्र- शस्ता । तदन्यत्र नीयतां शयनम् । देवी—^२बालिआओ, अज्जउत्तवअणं अणुचिट्ठह । परिजनः—^३तह । (निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।) राजा—जयसेने, मां गूढेन पथा प्रमदवनं प्रापय । प्रतीहारी—^४इँदो इदो देवो । राजा—जयसेने, समाप्तकरणीयो ननु गौतमः । प्रतीहारी—^५अह इं । राजा— इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाध्यमपि मत्वा । संदिग्धमेव सिद्धौ कातरमाशङ्कते हृदयम् ॥ ५ ॥ (प्रविश्य ।) विदूषकः—^६वँड्ढदु भवं । सिद्धांई दे मङ्गलकम्माईं । राजा—जयसेने, त्वमपि नियोगमशून्यं कुरु । प्रतीहारी—^७जं देवो आणवेदि । (इति निष्क्रान्ता ।) १. गच्छत्वार्यपुत्रः कार्यसिद्धये । २. बालिकाः, आर्यपुत्रवचनमनुतिष्ठत । ३. तथा । ४. इत इतो देवः । ५. अथ किम् । ६. वर्धतां भवान् । सिद्धानि ते मङ्गलकर्माणि । ७. यद्देव आज्ञापयति । हमिच्छामीति ॥ गच्छत्वार्यपुत्रः कार्यसिद्धये ॥ बालिका, आर्यपुत्रवचनमनुतिष्ठत ॥ तथा इत इतो देवः ॥ अथ किम् ॥ इष्टाधिगमेत्यादि । स्पष्टोऽर्थः ॥ वर्धतां भ- वान् । सिद्धानि ते यद्देव देव्या अङ्गुलीयकमुद्रा