मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 75, कुल 111 में से
संदर्भ में पढ़ें७२ मालविकाग्निमित्रे नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहो नाप्युपलभ्यते ॥ ६ ॥ विदूषकः—१तुवरदु भवं समुद्दघरए सहीसहिदं मालविअं ठाविअ भवन्तं पच्चुग्गदोम्हि । राजा—अहमेनां संभावयामि । गच्छाग्रतः । विदूषकः—२एदु भवं (परिक्रम्य ।) इंदं समुद्दघरं । राजा—(साशङ्कम् ।) वयस्य, एषा कुसुमावचयव्यग्रहस्ता स- ख्यास्ते परिचारिका चन्द्रिका संनिकृष्टमागच्छति । इतस्तावदावां भित्तिगूढौ भवावः । विदूषकः—३अहो कुम्भीलएहिं कामुएहिं च परिहरणीआ खु चन्दिआ । (उभे यथोक्तं कुरुतः ।) राजा—गौतम, कथं नु ते सखी मां प्रतिपालयति । एहि । एनां गवाक्षमाश्रित्य विलोकयामि । विदूषकः—४तह । (उभौ विलोकयन्तौ तिष्ठतः ।) (ततः प्रविशति मालविका बकुलावलिका च ।) बकुलावलिका—५सँहि, पणम भट्टारं । १. त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि । २. एतु भवान् । इदं समुद्रगृहम् । ३. अहो कुम्भिलकैश्च परिहरणीया खलु चन्द्रिका । ४. तथा । ५. सखि, प्रणम भर्तारम् । त्यहं संदिष्ट इति । ततो युज्यत इति तयैवं संपादितोऽर्थः ॥ नहि बुद्धीत्यादि । स्पष्टोऽर्थः ॥ त्वरतां भवान् । समुद्रगृहे सखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि ॥ एतु भवान् । इदं समुद्रगृहम् ॥ अहो इत्यामन्त्रणे । कुम्भिलकैः कामु- कैश्च परिहरणीया खलु चन्द्रिका तथा ॥ सखि, प्रणम भर्तारम् नमस्ते सखि,