मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 76, कुल 111 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ७३ मालविका—१णमो दे । राजा—शङ्के मे प्रतिकृतिं निर्दिशति । मालविका—(सहर्षम् । द्वारमवलोक्य ।) २हँला, मं विप्पलम्भेसि । राजा—हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि । सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य । वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥ बकुलावलिका—३णं एसो चित्तगदो भट्टा । उभे—(प्रणिपत्य ।) ४जेदुं भट्टा । मालविका—हँला, तदा संभमदिट्ठे भट्टिणो रूवे जहा ५ण वि- तिण्हम्हि, तहा अज्जवि मए भाविदो अवितिण्हदंसणो भट्टा । विदूषकः—६सुदं भवदा । तत्तहोदी चित्ते जहा दिट्ठो तहा दिट्ठो भवं ति मन्तेदि । मुद्धा दाणिं मञ्जूसा विअ रअणभण्डअं जो- वणगव्वं वहेसि । राजा—सखे, कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य । कात्स्न्येन निर्वर्णयितुं च रूप- मिच्छन्ति तत्पूर्वसमागमानाम् । १. नमस्ते । २. सखि, मां विप्रलम्भयसि । ३. नन्वेष चित्रगतो भर्ता । ४. जयतु भर्ता । ५. सखि, तदा संभ्रमदृष्टे भर्तू रूपे यथा न वितृष्णास्मि, तथाद्यापि मया भावितोऽवितृष्णदर्शनो भर्ता । ६. श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मन्त्रयति । मुग्धेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे । या विप्रलम्भयसि॥ सूर्योदय इत्यादि। स्पष्टोऽर्थः॥नन्वेष चित्रगतो भर्ता॥जयतु भर्ता॥सखि,तदा संभ्रमदृष्टे भर्तू रूपे यथा न वितृष्णास्मि,तथाद्यापि मयाभावितोऽ- वितृष्णदर्शनो भर्ता॥श्रुतं भवता।तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टोभवानिति मन्त्र- यति। मुग्धेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे॥कात्स्न्येनेत्यादि।स्पष्टोऽर्थः॥ माल० ७