मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 78, कुल 111 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ७५ विदूषकः—अणुणअसज्जो दाणिं होहि । मालविका—अज्जगोदमो एत्थ ण संसेवदि । (पुनः स्थानान्तराभि- खी भवितुमिच्छति ।) बकुलावलिका—(मालविकां रुद्ध्वा ।) णँ खलु कुविदा दाणिं तुमं । मालविका—जैँह चिरं कुविदं एव्व मं मण्णेसि, एसो पच्चा- णेअदि कोवो । राजा—(उपेत्य ।) कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे । ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥ १० ॥ बकुलावलिका—जेदुँ भट्टा । मालविका—(आत्मगतम् ।) कँहं चित्तगदो भट्टा मए असूइदो । (इति सप्रणयवदनमञ्जलिं करोति ।) (राजा मदनकातर्यं रूपयति ।) विदूषकः—किं भवं उदासीनो विअ । राजा—अविश्वसनीयत्वात्सख्यास्तव । विदूषकः—अत्तहोदीए अअं तुह अविस्सासो । राजा—श्रूयताम् । १. अनुनयसज्ज इदानीं भव । २. आर्यगौतमोऽत्र न संसेवते । ३. न खलु कुपितेदानीं त्वम् । ४. यदि चिरं कुपितामेव मां मन्यसे, एष प्रत्यानीयते कोपः । ५. जयतु भर्ता । ६. कथं चित्रगतो भर्ता मयासूयितः । ७. किं भवानुदासीन इव । ८ तवाविश्वास