भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 79, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 79

७६ मालविकाग्निमित्रे पथि नयनयोः स्थित्वा स्थित्वा तिरोभवति क्षणा- त्सरति सहसा बाह्वोर्मध्यं गतापि सखी तव । मनसिजरुजा क्लिष्टस्यैवं समागममायया कथमिव सखे विस्रब्धं स्यादिमां प्रति मे मनः ॥ ११ ॥ बकुलावलिका—सहि, बहुसो किल भट्टा विप्पलद्धो । दाव तुए अत्ता विस्सासणिज्जो करीअदु । मालविका—सहि, मह उण मन्दभग्गाए सिविणसमाअमो वि भट्टिणो दुल्हहो आसि । बकुलावलिका—भट्टा कहेदु से उत्तरं । राजा— उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् । तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १२ ॥ बकुलावलिका—अँणुगहीदम्ह । विदूषकः—(परिक्रम्य ।) बँहुलावलिए, एसो बालासोअरुक्खस्स पल्लवाइं लङ्घेदि हरिणो । णिवारेम णं । १. सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः क्रियताम् । २. सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तुर्दुर्लभ आसीत् । ३. भर्ता कथयत्वस्या उत्तरम् । ४. अनुगृहीताः स्मः । ५. बकुलावलिके, एष बालाशोकवृक्षस्य पल्लवानि लङ्घयति हरिणः । निवारयाम एनम् । भवत्यामयं तवाविश्वासः । अस्मिन्वाक्ये काकुरनुसंधेया ॥ पथि नयनयोरि- त्यादि । स्पष्टोऽर्थः ॥ सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्त्वयात्मा विश्वसनीयः क्रियताम् ॥ सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तु- र्दुर्लभ आसीत् ॥ भर्ता कथयत्वस्या उत्तरम् ॥ उत्तरेणेत्यादि । स्पष्टोऽर्थः ॥ अनुगृहीता स्म । बकुलावलिके, एष पल्लवानि लङ्घयति

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 79, कुल 111 में से · BharatKosha