भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 80, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 80

चतुर्थोऽङ्कः । ७७ बकुलावलिका—१तह । (इति प्रस्थिता ।) राजा—वयस्य, एवमेवास्मिन्क्षणक्षणेऽवहितेन त्वया भवि- तव्यम् । विदूषकः—२एंवं वि गोदमो संदिसेअदि । बकुलावलिका—(परिक्रम्य ।) ३अज्ज गोदम, अहं अप्पआसे चिट्ठामि । तुमं दुवाररक्खओ होहि । विदूषकः—४जुज्जइ । (निष्क्रान्ता बकुलावलिका ।) विदूषकः—५ईमं दाव फलिहक्खम्भं अस्सिदो होमि । (इति तथा- कृत्वा ।) अहो सुहप्फरिसदा सिलाविसेसस्स । (इति निद्रायते ।) (मालविका ससाध्वसा तिष्ठति ।) राजा— विसृज सुन्दरि संगमसाध्वसं तव चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥ मालविका—६देवीएं भएण अत्तणोवि पिअं कादुं ण पारेमि । १. तथा । २. एवमपि गौतमः संदिश्यते । ३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव । ४. युज्यते । ५. इमं तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि- लाविशेषस्य । ६. देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि । हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपि गौतमः संदिश्यते ॥ आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ युज्यते ॥ इमं तावत्स्फटिकस्त- म्भमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य ॥ विसृजेत्यादि ।

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 80, कुल 111 में से · BharatKosha