भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 81, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 81

७८ मालविकाग्निमित्रे राजा—अयि, न भेतव्यम् । मालविका—(सोपालम्भम् ।) १जो ण भाअदि, सो मए भट्टिणी दंसणे दिट्ठसामत्थो भट्ठा । राजा— दाक्षिण्यं नाम बिम्बोष्ठि वैम्बिकानां कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ तदनुगृह्यतां चिरानुरक्तोऽयं जनः । (इति संश्लेषमुपजनयति ।) (मालविका परिहरति ।) राजा—(आत्मगतम् ।) रमणीयः खलु नवाङ्गनानां मदनवि- यावतारः । तथा हि । हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः स्वौ हस्तौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् । पातुं पक्ष्मलनेत्रमुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १५ (ततः प्रविशतीरावती निपुणिका च ।) इरावती—२हञ्जे णिउणिए, सच्चं तुमं परिगदत्था चन्दिआए समुद्दघरअलिन्दसइदौ एआई अज्जगोदमो दिट्ठो त्ति । निपुणिका—३अण्णहा कहं भट्टिणीए विण्णावेमि । १. यो न बिभेति, स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता । २. हञ्जे निपुणिके, सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्द- शयित एकाकी आर्यगौतमो दृष्ट इति । ३. अन्यथा कथं भट्टिन्यै विज्ञापयामि । स्पष्टोऽर्थः ॥ देव्या भयेनाहम्नोऽपि प्रियं कर्तुं न पारयामि ॥ यो न बिभे[ति] स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ॥ दाक्षिण्यमिति । स्पष्टोऽर्थः वैम्बिकाखद्वंशा राजानः ॥ हस्तमित्यादि । स्पष्टोऽर्थः ॥ हञ्जे निपुणिके सत्यं त्वं परिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आर्यगौतम[ो] दृष्ट इति ॥ कथं भट्टिन्यै विज्ञापयामि ॥ तेन हि तत्रैव गच्छाम स[ः]