मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 84, कुल 111 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ८१
विदूषकः—(उत्स्वप्नायते ।) ^१भोदि मालविए । निपुणिका—^२सुदं भट्ठिणीए कस्स एसो अत्तणिओअसंपा- दणे विस्ससणिज्जो हदासो । सबाकलं इदो एव सोत्थिवाअणमो- दएहिं कुच्छिं पूरिअ संपदं मालविअं सिविणावेदि । विदूषकः—^३इरावदिं अदिक्कमन्ती होहि । निपुणिका—^४एदं अच्चाहिदं । इमं भुअङ्गभीरुअं बह्म- बन्धुं इमिणा भुअङ्गकुडिलेण दण्डकट्ठेण खम्भन्तरिदा भाआइस्सं । इरावती—^५अरुहदि एव किदग्घो उवद्दवस्स । (निपुणिका विदूषकस्योपरि दण्डकाष्ठं पातयति ।) विदूषकः—(सहसा प्रबुध्य ।) ^६अविहा अविहा । भो वअस्स, सप्पो मे उवरि पडिदो । राजा—(सहासोपसृत्य ।) सखे, न भेतव्यं न भेतव्यम् ।
१. भवति मालविके । २. श्रुतं भट्टिन्या । कस्यैष आत्मनियोगसंपादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकां स्वप्नायते । ३. इरावतीमतिक्रामन्ती भव । ४. एतदत्याहितम् । इमं भुजंगभीरुं ब्रह्मबन्धुमनेन भुजंगकुटिलेन दण्डकाष्ठेन स्तम्भान्तरिता भीषयिष्यामि । ५. अर्हत्येव कृतघ्न उपद्रवस्य । ६. अविधा अविधा । भो वयस्य, सर्पो म उपरि पतितः ।
संपादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकां स्वप्नायते । अत्र दोषोद्घाटनादपवादो नाम संध्यङ्गमुक्तं भवति । तत्रैव रोषभाषणात्संफेटो नाम संध्यङ्गमुक्तं भवति ॥ इरावतीमतिक्रामन्ती भव ॥ एतदत्याहितम् । इमं भुजंगभीरुं ब्रह्मबन्धुमनेन भुजंगकुटिलेन दण्डकाष्ठेन स्तम्भान्तरिता भीषयिष्यामि । अर्हत्येव कृतघ्न उपद्रवस्य । 'उवद्दवस्स' इत्यत्र क्वचित्, 'असादेः' इति प्राकृते कर्मणि षष्ठी ॥ अविधाअविधा । भो वयस्य, सर्पो म उपरि पतित