भारतकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 85, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 85

८२ मालविकाग्निमित्रे मालविका—(अनुसृत्य ।) भट्टा, मा दाव सहसा णिक्कम । स- प्पोत्ति भणीअदि । इरावती—हद्धि हद्धि । भट्टा इदो एव्व धावदि । विदूषकः—(सप्रहासम् ।) कहं दण्डकट्ठं एदं । अहं उण जाणे जं मए केदईकण्टएहिं दंसं करिअ सप्पस्स उवरि अ- असो किदं, तं मे फलिदं । (प्रविश्य पटाक्षेपेण ।) बकुलावलिका—मा दाव भट्टा पबिसदु । कुडिलगई सप्पो विअ दीसदि । इरावती—(स्तम्भान्तरिता राजानमुपेत्य ।) अवि णिव्विग्घमणोरहो दिवासंकेदो मिहुणस्स । (सर्वे इरावतीं दृष्ट्वा संभ्रान्ताः ।) राजा—प्रिये, अपूर्वोऽयमुपचारः । इरावती—बँउलावलिए, दिट्ठिआ दुच्चाहिआअविसआ सं- पुण्णा दे पडिण्णा । १. भर्तः, मा तावत्सहसा निष्क्राम । सर्प इति भण्यते । २. हा धिक् हा धिक् । भर्त्ता इत एव धावति । ३. कथं दण्डकाष्ठमेतत् । अहं पुनर्जाने यन्मया केतकीकण्टकैर्दंशं कृत्वा सर्पस्योपर्यशः कृतम्, तन्मे फलितम् । ४. मा तावद्भर्ता प्रविशतु । कुटिलगतिः सर्प इव दृश्यते । ५. अपि निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य । ६. बकुलावलिके, दिष्ट्या दूत्याधिकारविषया संपूर्णा ते प्रतिज्ञा । अत्रोद्वेजनाद्युक्तिर्नाम संध्यङ्गमुक्तं भवति॥भर्तः, मा तावत्सहसा निष्क्राम । सर्प इति भण्यते ॥ हा धिक् हा धिक् । भर्ता इत एव धावति ॥ कथं दण्डकाष्ठमेतत् । अहं पुनर्जाने । यन्मया केतकीकण्टकैर्दंशं कृत्वा सर्पस्योपर्यशः कृतम्, तन्मे फलितम् ॥ मा तावद्भर्ता प्रविशतु । इह कुटिलगतिः सर्प इव दृश्यते ॥ अपि निर्विघ्नमनोरथो दिवासंकेतो मिथुनस्य ॥ बकुलावलिके, दिष्ट्या दूत्याधिकारवि-