मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 97, कुल 111 में से
संदर्भ में पढ़ें९४ मालविकाग्निमित्रे राजा—(सव्रीडमशोकमभितः परिक्रामन् ।) नायं देव्या भाजनत्वं न नेयः सत्काराणामीदृशानामशोकः । यः सावज्ञो माधवश्रीनियोगे पुष्पैः शंसत्यादरं त्वत्प्रयत्ने ॥ ८ ॥ विदूषकः—१भो, वीसद्धो भविअ तुमं जोबणवदिं इमं देवी—२कं । विदूषकः—३भोदि, तवणीआसोअस्स कुसुमसोहम् । (सर्व उपविशन्ति ।) राजा—(मालविकां विलोक्य । आत्मगतम् ।) कष्टः खलु वियोगः । अहं रथाङ्गनामेव प्रिया सहचरीव मे । अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥ ९ ॥ (प्रविश्य ।) कञ्चुकी—विजयतां देवः । देव, अमात्यो विज्ञापयति विषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलघुशरे इति प्रवेशिते । संप्रति देवोपस्थानयोग्ये संवृत्ते । तदाज्ञां देवो ऽर्हतीति । राजा—प्रवेशय ते । कञ्चुकी—यदाज्ञापयति देवः । (इति निष्क्रम्य ताभ्यां सह इतो भवत्यौ । १. भोः, विस्रब्धो भूत्वा त्वं यौवनवतीमिमां पश्य । २. काम् । ३. भवति, तपनीयाशोकस्य कुसुमशोभाम् । ष्ठितोऽसि ॥ नायं देव्या इत्यादि । स्पष्टोऽर्थः ॥ भोः, विस्रब्धो भू- नवतीमिमां पश्य ॥ काम् ॥ भवति, तपनीयाशोकस्य कुसुमशोभाम् रथाङ्गेत्यादि स्पष्टोऽर्थः ॥ सखि मदनिके, अपूर्वमिमं राजकुलं प्रविष्टा