मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 96, कुल 111 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ९३ तह वि मे हिअअं बिसिणीपत्तगदं विअ सलिलं वेवदि । अविअ दक्खिणेदरं वि णअणं बहुसो फुरदि । विदूषकः—१भो वअस्स, विवाहेणवेच्छेण सविसेसं खु सोहदि मालविआ । राजा—पश्याम्येनाम् । यैषा अनतिलम्बिदुकूलनिवासिनी बहुभिराभरणैः प्रतिभाति मे । उडुगणैरदयोन्मुखचन्द्रिका हतहिमैरिव चैत्रविभावरी ॥ ७ ॥ देवी—(उपेत्य ।) २जेदु अज्जउत्तो । विदूषकः—३वढ्ढदु भोदी । परिव्राजिका—विजयतां देवः । राजा—भगवति, अभिवादये । परिव्राजिका—अभिप्रेतसिद्धिरस्तु । देवी—(सस्मितम् ।) ४अज्जउत्त, एस ते अह्मेहिं तरुणीजणसहा- .स्स असोओ संकेदघरो कप्पिदो । विदूषकः—५मो, आराहिओसि । १. भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका । २. जयत्वार्यपुत्रः । ३. वर्धतां भवती । ४. आर्यपुत्र, एष तेऽस्माभिस्तरुणीजनसहायस्याशोकः संकेतगृहं कल्पितः । ५. भोः, आराधितोऽसि । .स। तथापि मे हृदयं बिसिनीपत्रगतमिव सलिलं वेपते । अपि च दक्षिणेतरमपि मे यनं बहुशः स्फुरति ॥ भो वयस्य, विवाहनेपथ्येन सविशेषं खलु शोभते मालविका॥ नतिलम्बीत्यादि । स्पष्टोऽर्थः ॥ जयत्वार्यपुत्रः ॥ वर्धतां भवती ॥ आर्य- त्र, एष तेऽस्माभिस्तरुणीजनहितस्याशोकः संकेतगृहं कल्पितः ॥ भोः, आरा-