भारतकोश
संग्रह पर लौटें

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

१०६ मालविकाग्निमित्रे प्रतीहारी—१जं देवी आणवेदि । (इति निष्क्रान्ता पत्रोर्णं गृहीत्वा पुनः प्रविश्य ।) देवि, एदम् । देवी—(मालविकामवगुण्ठनवतीं कृत्वा ।) २अज्जउत्तो दाणिं इमं प- डिच्छदु । राजा—त्वच्छासनात्प्रवृत्ता एव वयम् । (अपवार्य ।) हन्त, प्र- तिगृहीता । विदूषकः—३अँहो देवीए अणुकूलदा । (देवी परिजनमवलोकयति ।) परिजनः—(मालविकामुपैत्य ।) ४जेदु भट्टिणी । (देवी परिव्राजिकां निरीक्षते ।) परिव्राजिका—नैतच्चित्रं त्वयि । प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः । अन्यसरितामपि जलं समुद्रगाः प्रापयन्त्युदधिम् ॥ १९ ॥ (प्रविश्य ।) निपुणिका—५जेदु भट्ठा । इरावती विण्णावेदि । जं उवआ- १. यद्देव्याज्ञापयति । देवि, एतत् । २. आर्यपुत्र इदानीमिमां प्रतीच्छतु । ३. अहो देव्या अनुकूलता । ४. जयतु भट्टिनी । ५. जयतु भर्ता । इरावती विज्ञापयति । यदुपचारातिक्रमेण तदा म अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम मयाचरितम् । सांप्रतं पूर्णमनोरथेन् भर्त्रा प्रसादमात्रेण संभावयितव्येति । व्याज्ञापयति । देवि, एतत् ॥ आर्यपुत्र इदानीमिमां प्रतीच्छतु॥हन्त हर्षे । प्रतिगृ- हीता वशीकृता । अत्र वाञ्छितावाप्तेरानन्दो नाम संध्यङ्गमुक्तं भवति ॥अहो देव्या अनुकूलता ॥ जयतु भट्टिनी । अत्र बहुमानप्राप्तेर्भाषितेति संध्यङ्गमुक्तं भवति ॥ प्र- तिपक्षेणेत्यादि । स्पष्टोऽर्थ ॥जयतु भर्ता। इरावती विज्ञापयति ।यदुपचारातिक्र-

पञ्चमोऽङ्कः । १०७ रादिक्कमेण तदा सव्विणो अवरद्धा, तं सव्वं एव भत्तुणो आणुऊलं णाम मए आअरिदं । संपदं पुण्णमणोरहेण भत्तुणा पसादमेत्तेण संभावाइदव्वत्ति । देवी—णिउणिए, अवस्सं से सेविदं अज्जउत्तो जाणिस्सदि । निपुणिका—अनुगहीदम्हि । परिव्राजिका—देव, अमुना युक्तसंबन्धेन चरितार्थं माधवसेनं सभाजयितुं गच्छामः । देवी—भअवदीए ण जुत्तं अम्हे परिच्चइदुं । राजा—भगवति, मदीयेष्वेव लेखेषु तत्रभवतस्त्वामुद्दिश्य स- भाजनाक्षराणि पातयिष्यामः । परिव्राजिका—युवयोः स्नेहात्परवानयं जनः । देवी—अज्जउत्त, किं ते भूओ पिअं उवहरामि । राजा— त्वं मे प्रसादसुमुखी भव देवि नित्य- मेतावदेव हृदये प्रतिपालनीयम् । १. निपुणिके, अवश्यमस्याः सेवितमार्यपुत्रो ज्ञास्यति । २. अनुगृहीतास्मि । ३. भगवत्या न युक्तमस्मान्परित्यक्तुम् । ४. आर्यपुत्र, किं ते भूयः प्रियमुपहरामि । पण तदा सर्वे अपराद्धा, तत्स्वयमेव भर्तुरनुकूलं नाम ममाचरितम्। सांप्रतं पूर्ण- मनोरथेन भर्त्रा प्रसादमात्रेण संभावयितव्येति॥ निपुणिके, अवश्यमस्याः सेवितमा- र्यपुत्रो ज्ञास्यति ॥ अनुगृहीतास्मि ॥ भगवत्या न युक्तमस्मान्परित्यक्तुम् ॥ आर्यपुत्र, किं ते भूयः प्रियमुपहरामि ॥ त्वं मे प्रसादेत्यादि । हे देवि, त्वं मे मम नित्यं सर्वदा प्रसादसुमुखी प्रसादेन प्रसन्नतया शोभनं मुखं यस्यास्तथोक्ता भव भूयाः । एतावदेवेदमेव हृदये मनसि प्रतिपालनीयमपेक्षणीयम् । इतःपरं भरतवा-

१०८ मालविकाग्निमित्रे (भरतवाक्यम् ।) आशास्यमभ्यधिगमात्प्रभृति प्रजानां संपद्यते न खलु गोप्तरि नाग्निमित्रे ॥ २० ॥ (इति निष्क्रान्ताः सर्वे ।) इति श्रीकालिदासस्यकृतौ मालविकाग्निमित्रे पञ्चमोऽङ्कः । क्यम् । आशास्यमित्यादि । प्रजानां जनानामभ्यधिगमात्संप्राप्तेः । परिग्रहा- दित्यर्थः । तस्मात्प्रभृत्यारभ्याग्निमित्रेऽस्मिन्नायके गोप्तरि रक्षके सति तासांप्रजाना- माशास्यमपेक्ष्यवस्तु न संपद्यत इति न न संभवतीति न। संभवत्येवेत्यर्थः।अनेन आशास्यसिद्धिकथनरूपेण शुभशंसनात्प्रशस्तिर्नाम संध्यङ्गमुक्तं भवति । यदुक्तं— ‘प्रशस्तिः शुभशंसनम्’ इति । सर्वनाटकप्रयोगान्ते भरतेन सर्वकालसाधारणे आ- शीर्वचने कर्तव्ये सति अत्र प्रजानामाशास्यसिद्धिं प्रति गोप्तुरग्निमित्रस्य कथनं तत्का- लराजोपलक्षणमिति मन्तव्यम् ॥ इति श्रीकाटयवेमभूपचिरचिते कुमा- रगिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः । श्रीमत्काटयवेमस्य कृतिर्विज्ञानशालिनः । कुमारगिरिराजीया जीयादाचन्द्रतारकम् ॥