मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 101, कुल 672 में से
संदर्भ में पढ़ेंअध्यवस्यति शास्त्रं चापेक्षते मुक्तिहेतवे । कर्मानुरूपं तद्बुद्धिसत्त्वं शास्त्रस्य गोचरः ॥ शास्त्राधिकारी योऽविद्यास्वभावो दर्शनान्तरे । परमार्थस्वभावोऽसाविति निर्धार्यतेऽत्र तु ॥ 17 चित्तं स्वसंवेदनं स्यात् तदेव जगदित्यपि । ब्रुवाणा ये सौगताः स्युः तेनैते प्रतिबोधिताः ॥ गुणाः परिणामिनित्याः कूटस्थाः पुरुषा मताः । प्रतिक्षणपरिणामाः क्षणविध्वंसिनोऽपरे ॥ गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेत्याह भाष्यकृत् ॥ संहतास्ते गुणाः पुंसां शेषत्वाद्गुणशब्दिताः । सर्वकार्यप्रधानत्वात्प्रधानमिति चोच्यते ॥ नासतो विद्यते भावो नाभावो विद्यते सतः । अतीताध्वप्रविष्टाः स्युः भावाः नात्यन्तिकक्षयाः ॥ चित्तं वा चित्ततन्त्रं वा न वस्त्वित्यनुशिष्यते । विज्ञानप्रतिभासादिवादास्तेन पराहताः ॥ वस्तुसाम्ये चित्तभेदाद्विक्षेपे नाश आपतेत् । प्रत्यभिज्ञादिकं तावत्पुंभेदेऽपि प्रदृश्यते ॥ पुमैक्ये किमु वक्तव्यं तस्माद्वस्त्वस्ति तत् स्थिरम् चित्तचैत्तोभयं नावधार्येत क्षणिकं यदि ॥