मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 104, कुल 672 में से
संदर्भ में पढ़ें62 मानमेयरहस्यश्लोकवार्तिके विभज्य वचनीयोऽसौ तृतीयः प्रश्न उच्यते । प्रायस्सर्वत्र शङ्कानां विभागेनैवमुत्तरम् ॥ 22 मुक्तिर्नामात्र कैवल्यं मतं चिन्मात्रलक्षणम् । व्यावत्र्यते मात्रचाऽत्र स्वात्मसंवेदनाऽपि हि ॥ स्वात्मानन्दानुभवनं कैवल्य इति केचन । सांख्याः प्राहुः तदप्यन्यैः कौटस्थ्यान्नाभ्युपेयते । वैशेषिकादिसिद्धान्तसंसिद्धादात्मनो जडात् । वैलक्षण्यं मतं त्वेतच्चिद्रूपत्वमिहात्मनः ॥ आत्मा न स्वप्रकाशात्मा प्रकाशात्मैव केवलः । इति पातञ्जलाः सांख्याः प्राहुर्निर्णयमात्मनाम् ॥ (11) प्रभाकरदर्शनम्. 1 द्रव्यं गुणस्तथा कर्म सामान्यं शक्तिरेवच । सादृश्यं समवायश्च संख्या चेत्यष्टधा स्थितम् ॥ प्रमेयमिति सिद्धान्तः प्रभाकरगुरोर्मतः । क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च ॥ द्रव्याणि नवधा तेजोहीनाधिकरणं तमः ॥ रूपं गन्धो रसः स्पर्शः वियोगो योग एवच ॥ पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एवच । बुद्धिस्सुखं दुःखमिच्छा द्वेषः यत्नश्च संक्रिया ॥