मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 103, कुल 672 में से
संदर्भ में पढ़ेंतस्मात्तु राजसात्कर्मेन्द्रियाणां स्यात्तु पञ्चकम् । प्रादुर्भूतं मनश्चैवाहङ्कारादुभयात्मकम् ॥ अङ्गि चेच्छब्दतन्मात्रं आकाशस्य समुद्भवः । एवं स्पर्शाद्यङ्गितायां पवनादिसमुद्भवः ॥ बाह्योऽर्थः त्रिगुणः चित्तं यथैव त्रिगुणं तथा । धर्मादिस्सहकारी स्यात् तेनार्थो ज्ञायते यदा ॥ तदुद्भवाभिभवतः व्यज्यते बहुरूपतः । ततस्सुखं दुःखमिति विचित्रं जगदुच्यते ॥ 21 ननु सर्वे च पुरुषाः मुच्यन्ते वाऽथ किं न वा । आद्ये प्रधानस्य परिणामस्सावधिको भवेत् ॥ द्वितीये तत्त्वविज्ञानाविस्रम्भ इति चेन्न तत् । अस्ति हि त्रिविधः प्रश्नः तदुत्तरविभागतः ॥ एकान्तवचनीयश्चावचनीयस्तथैव च । विभज्य वचनीयश्चेत्यत्रोदाहरणं क्रमात् ॥ जन्तुर्जातः स्थिरः कश्चित्तिष्ठतीत्यनुयोगतः । सर्वो मरिष्यतीत्यत्र त्वेकान्तवचनीयता ॥ समाप्यते किं प्रधानपरिणामक्रमस्त्विति । प्रश्नोऽयमुत्तरानर्होऽनवधारणशक्तितः ॥ मुच्यन्ते किं पुनस्सर्वे इत्यत्र त्विदमुत्तरम् । तत्त्वख्यातिर्यस्य पुंसः मुच्यतेऽसौ नचेतरः ॥