मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
तस्मात्तु राजसात्कर्मेन्द्रियाणां स्यात्तु पञ्चकम् । प्रादुर्भूतं मनश्चैवाहङ्कारादुभयात्मकम् ॥ अङ्गि चेच्छब्दतन्मात्रं आकाशस्य समुद्भवः । एवं स्पर्शाद्यङ्गितायां पवनादिसमुद्भवः ॥ बाह्योऽर्थः त्रिगुणः चित्तं यथैव त्रिगुणं तथा । धर्मादिस्सहकारी स्यात् तेनार्थो ज्ञायते यदा ॥ तदुद्भवाभिभवतः व्यज्यते बहुरूपतः । ततस्सुखं दुःखमिति विचित्रं जगदुच्यते ॥ 21 ननु सर्वे च पुरुषाः मुच्यन्ते वाऽथ किं न वा । आद्ये प्रधानस्य परिणामस्सावधिको भवेत् ॥ द्वितीये तत्त्वविज्ञानाविस्रम्भ इति चेन्न तत् । अस्ति हि त्रिविधः प्रश्नः तदुत्तरविभागतः ॥ एकान्तवचनीयश्चावचनीयस्तथैव च । विभज्य वचनीयश्चेत्यत्रोदाहरणं क्रमात् ॥ जन्तुर्जातः स्थिरः कश्चित्तिष्ठतीत्यनुयोगतः । सर्वो मरिष्यतीत्यत्र त्वेकान्तवचनीयता ॥ समाप्यते किं प्रधानपरिणामक्रमस्त्विति । प्रश्नोऽयमुत्तरानर्होऽनवधारणशक्तितः ॥ मुच्यन्ते किं पुनस्सर्वे इत्यत्र त्विदमुत्तरम् । तत्त्वख्यातिर्यस्य पुंसः मुच्यतेऽसौ नचेतरः ॥
62 मानमेयरहस्यश्लोकवार्तिके विभज्य वचनीयोऽसौ तृतीयः प्रश्न उच्यते । प्रायस्सर्वत्र शङ्कानां विभागेनैवमुत्तरम् ॥ 22 मुक्तिर्नामात्र कैवल्यं मतं चिन्मात्रलक्षणम् । व्यावत्र्यते मात्रचाऽत्र स्वात्मसंवेदनाऽपि हि ॥ स्वात्मानन्दानुभवनं कैवल्य इति केचन । सांख्याः प्राहुः तदप्यन्यैः कौटस्थ्यान्नाभ्युपेयते । वैशेषिकादिसिद्धान्तसंसिद्धादात्मनो जडात् । वैलक्षण्यं मतं त्वेतच्चिद्रूपत्वमिहात्मनः ॥ आत्मा न स्वप्रकाशात्मा प्रकाशात्मैव केवलः । इति पातञ्जलाः सांख्याः प्राहुर्निर्णयमात्मनाम् ॥ (11) प्रभाकरदर्शनम्. 1 द्रव्यं गुणस्तथा कर्म सामान्यं शक्तिरेवच । सादृश्यं समवायश्च संख्या चेत्यष्टधा स्थितम् ॥ प्रमेयमिति सिद्धान्तः प्रभाकरगुरोर्मतः । क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च ॥ द्रव्याणि नवधा तेजोहीनाधिकरणं तमः ॥ रूपं गन्धो रसः स्पर्शः वियोगो योग एवच ॥ पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एवच । बुद्धिस्सुखं दुःखमिच्छा द्वेषः यत्नश्च संक्रिया ॥
परिमाणं च परताऽपरता शब्द एव च । इत्येकविंशतिविधो गुण इत्यवगम्यते ॥ 2 द्रव्यसामान्यवृत्तित्वे सामान्यगुणतेष्यते । प्रत्येकद्रव्यवृत्तित्वे विशेषगुणता मता ॥ नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः । तेषामाश्रयभेदेन भेदो नाभ्युपगम्यते ॥ अथ कर्मपदार्थं तु सूक्ष्ममाहुरतीन्द्रियम् । अनुमेयं च संयोगाद्विभागादऽर्ककर्मवत् ॥ सामान्यं न्यायमतवत् शक्तिस्सर्वपदार्थगा । नानाविधा च सादृश्यमनेकं सर्ववस्तुगम् ॥ समवायोऽनेकविधोऽप्यनित्योप्यक्षगोचरः । संख्याऽपि सर्वगा ज्ञेया सर्वेषां विस्तरोऽग्रतः ॥ (12) कौमारिलदर्शनम्. 1 द्रव्यं गुणस्तथा कर्म जातिश्चाभाव इत्यपि । भट्टपादस्य सिद्धान्ते प्रमेयं पञ्चधा मतम् ॥ क्षित्यप्तेजोमरुद्व्योमदिक्कालात्ममनांसि च । तमो वर्ण इति द्रव्यमेकादशविधं मतम् ॥ रूपं गन्धो रसः स्पर्शः संख्यासंयोगशक्तयः । विभागः परिमाणं च परताऽपरता ध्वनिः ॥
पृथक्त्वं च गुरुत्वं च द्रवत्वं स्नेह एव च । बुद्धिस्सुखं दुःखमिच्छा द्वेषः संस्कार इत्यपि ॥ प्राकट्यं च प्रयत्नश्च चतुर्विंशतिधा गुणाः । कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् ॥ जात्यभावौ तार्किकाद्यैः कीर्तितावेव सम्मतौ । शिष्टं विशेषवादेषु स्पष्टमग्रे भविष्यति ॥ २ प्रत्यक्षाणि हि सर्वाणि द्रव्याण्यात्मा तथाऽन्तरः। दृश्यमानातिरिक्तं तु द्रव्यं भाट्टैर्न मन्यते ॥ स्वयंप्रकाशमात्मानं कालाकाशमनांसि तु । अप्रत्यक्षाणीति वेत्ति प्रभाकरगुरुः पुनः ॥ ३ द्रव्याज्जातिगुणादीनां नात्यन्तं भेद इष्यते । किंतु तादात्म्यमेतस्मादनेकान्तः यथोच्यते ॥ जात्याद्यर्थान्तरं यस्मादतद्रूपेऽपि वस्तुनि । भवत्यध्यस्य धीस्तस्मान्मृगतृष्णादिभिस्समा ॥ नैतत्, अश्वादिबुद्धीनामध्यारोपाद्यसंभवात् । स्थितं नैवहि जात्यादेः परत्वं व्यक्तितो हि नः ॥ यदि ह्येकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् । स्वानुरूपां सदा बुद्धिं विशेष्ये जनयेत्कथम् ॥ नतु जात्यादिनिर्मुक्तं वस्तु दृष्टं कदाचन । तद्विमोकेन वा तानि लाक्षादिस्फटिकादिवत् ॥
द्वैताद्वैतदर्शनम् 6 नचाप्ययुतसिद्धानां संबन्धित्वेन कल्पना । नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता ॥ अत्यन्तभिन्नताऽस्माभिर्नैव कस्यचिदिष्यते । सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥ उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । इति कौमारिलैकान्तः शिष्टमग्रे निरूप्यते ॥ (13) द्वैताद्वैतदर्शनम्. 1 अथ भेदाभेदवादे प्राचां सिद्धान्त उच्यते । महासमुद्रस्थानीयं परं ब्रह्माक्षरं मतम् ॥ तदप्रचलितावस्थं ईषत्प्रचलितं यदा । तदन्तर्यामिसंज्ञं स्यात् अत्यन्तचलितं यदा ॥ तदा क्षेत्रज्ञसंज्ञं स्यात् इति त्रेधा व्यवस्थितम् । पञ्चावस्था अपि प्राहुः भूतसंस्थानभेदतः ॥ पिण्डो जातिर्विराट् सूत्रं दैवमित्युक्तलक्षणाः । भूतमात्रामहदहमिन्द्रियापरनामकाः ॥ अष्टावस्था इमाः भर्तृप्रपञ्चादिभिरीरिताः । एतेऽवस्थावादिनस्स्युः केचिदुत्पत्तिवादिनः ॥ विकारवादिनः केचित् अन्ये स्युः शक्तिवादिनः । शक्तिवादिन एवैते प्रायोऽभिव्यक्तिवादिनः ॥ M.R. 9
66 मानमेयरहस्यश्लोकवार्त्तिके जरन्मायावादिन इत्येत एव मता बुधैः । बृहदारण्यकव्याख्याविदितं मतमीदृशम् 2 एतं पन्थानमाश्रित्य मध्ये भास्करयादव आसन् भाष्यकृतोऽद्वैतविशिष्टाद्वैतभाष्य तत्र जीवो ब्रह्मणोऽंशः विस्फुलिङ्गवदि पृथिव्युपष्टम्भभेदात् तेजः खण्डमिवेक्ष्य तत्र भास्करसिद्धान्तः परिणाम इति श्रु भेदाभेदः स्वभावेन स्याज्जगद्ब्रह्मणोरिह जीवेशयोः पुनर्भेदस्स्यादुपाधिविभेदतः स्वाभाविको मोक्षदशाकालिकोऽभेद इष श्रीमद्यादवसिद्धान्तः भेदाभेद इति श्रुत स्वभावात् ब्रह्मजगतोः तथैव ब्रह्मजीव अथापि भेदाभेदस्तु द्वाभ्यामप्युररीकृतः 3 तत्र भास्करभाष्यस्थं वचनं त्ववगम्यता एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते नानात्वं तस्य तत्पूर्वं कस्माद्भेदोऽपि ने यत्प्रमाणैः परिच्छिन्नं अविरुद्धं हि तत्तथ वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते विरोधे चाविरोधे च प्रमाणं कारणं मत
द्वैताद्वैतदर्शनम् 67 एकं रूपं प्रतीतत्वात् द्विरूपं च तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥ नरभेदान्न हि ज्ञेया वस्तुनस्सदसत्त्वता । नहि रूपमनन्धानां सत्यमन्धेष्वसद्भवेत् ॥ प्रपञ्चास्तित्वमज्ञस्य तस्यैव ज्ञानिनः पुनः । स एव किल नास्तीति कथं सत्यं वचो भवेत् ॥ नहि द्विचन्द्रः प्रागासीत् पश्चान्नास्तीति युज्यते । द्विचन्द्रज्ञानतुल्यत्वं प्रत्यक्षादेस्त्वपेक्ष्यते ॥ अतो भिन्नाभिन्नरूपं ब्रह्मेत्येवावधार्यते । न गृह्यते च करणदोषः तिमिरवत् स्वतः ॥ कार्यरूपेण नानात्वं अभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥ अप्रच्युतस्वभावस्य शक्तिविक्षेपलक्षणः । परिणामः यथा तन्तुनाभस्य पटतन्तुवत् ॥ आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः । इत्युच्यते कैश्चिदत्र प्रत्युक्तिरियमुच्यते ॥ स्वरूपमेव वस्तूनां परस्परविलक्षणम् । नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥ पटरूपं घटे नास्ति घटरूपं पटे नहि । इति देशान्तराभावः अन्योन्याभाव उच्यते ॥
58 मानमेयरहस्यश्लोकवार्तिके एतन्मूलमनेकान्तवादस्यापीति निर्णयः । कार्यकारणभावस्य मीमांसायां तु विस्तरः ॥ (14) विशुद्धाद्वैतदर्शनम्. 1 अथाद्वैतविदामेष प्रमेयपरिनिश्चयः । पदार्थो द्विविधः तत्त्वमतत्त्वं चेति संग्रहात् ॥ तत्त्वं ब्रह्मैकमेव स्यात् अतत्त्वं द्विविधं मतम् । अनिर्वाच्यमसच्चेति प्रथमं द्विविधं पुनः ॥ व्यावहारिकमाद्यं स्यात् द्वितीयं प्रातिभासिकम् । आद्यं चतुर्विधं प्राहुः प्रकृतिर्विकृतिस्तथा ॥ उभयात्मकमन्यत्स्यात् उदासीनं तुरीयकम् । आद्यत्रयं द्रव्यमुक्तं उदासीनं गुणः क्रिया ॥ जातिस्संख्या च शक्तिश्चेत्यनन्तविधमुच्यते । असच्च शशशृङ्गादिः विकल्पविषयस्तु सः ॥ विकल्पो निस्स्वभावस्य वस्तुनस्स्ववभासकः । प्रतीतिस्सस्वभावस्य वस्तुनस्त्विति निर्णयः ॥ 2 इयमेका प्रक्रियोक्ताऽथापराऽपि निशम्यताम् । अर्थो द्विधस्स्वतस्सिद्धः परतस्सिद्ध इत्यपि ॥ आद्य आत्मा त्वनात्माऽन्यः स च द्विविध इष्यते। साक्षिभास्यो वृत्त्यपेक्षसाक्षिभास्य इतीतरः ॥
विशुद्धाद्वैतदर्शनम् 69 मनस्सुखादिराद्यः स्यात् द्वितीयोऽपि द्विधो मतः। मनोवृत्तिमपेक्षैकोऽविद्यावृत्तिमन्तरः ॥ घटादिः प्रथमस्तत्र सुषुप्त्यादिरनन्तरः । एवं शिक्षा पदार्थानां समग्राहि समासतः ॥ 3 ब्रह्मैवानाद्यनिर्वाच्याऽविद्यारूपोपधानतः । नामरूपप्रपञ्चाख्यप्रभेदेन विवर्तते ॥ यथा च मुखमेवैकं कृपाणमणिभेदतः । प्रतिबिम्बविभेदेन विविधं भुवि वर्तते ॥ प्रत्यासः परिणामश्च विवर्तश्चेति च त्रिधा । प्रवादास्तत्र चाध्यास एव प्रत्यासलक्षणः ॥ यथा च स्फाटिकी बुद्धिः लाक्षारुणिमगोचरा । यथा वा वनबुद्धिः स्यात्किंशुकादिसमूहिषु ॥ यथा वा शशशृङ्गादौ शब्दसत्त्वप्रकल्पना । यथा पदार्थेष्वेकत्वं स्फोटो वाक्यार्थ इष्यते ॥ तथाचाध्यास एष स्यादनेकं यत्र चैकधा । परिणामस्सुवर्णस्य मकुटाद्याकृतिः स्फुटा ॥ विवर्तो विविधा वृत्तिः यत्र चैकमनेकधा । एकं बिम्बमनेकेषूपाधिषु प्रतिबिम्बते ॥ एवं वाचस्पतेर्न्यायकणिकायां निरूपितः । भेदो विधिविवेकस्य व्याख्यायां अधुना पुनः ॥
70 मानमेयरहस्यश्लोकवार्तिके समसत्ताककार्यं यत्परिणामस्स ईर्यते । कार्यं विषमसत्ताकं विवर्त इति गीयते ॥ 4 विवर्तसिद्धयै चाविद्या नाम दोषः प्रकल्प्यते । अर्थक्रियाकारितया स भावोऽज्ञानलक्षणः ॥ तच्चाज्ञानं नाग्रहणं न मिथ्याज्ञानमप्यथ । नापि तत्संस्कारभेदः किंतु त्रयविलक्षणः ॥ अहमज्ञो मां न जानामीत्यध्यक्षावभासतः । अज्ञानसिद्धिः नाभावः धर्मिज्ञानाद्यपेक्षणात् ॥ विवादाध्यासितं ज्ञानं स्याद्वस्त्वन्तरपूर्वकम् । अर्थप्रकाशकत्वाद्यदेवं तद्वै तथेष्यते ॥ यथा प्राथमिकी दीपप्रभा स्यात् ध्वान्तपूर्विका स्वप्रागभावातिरिक्तं विषयावरणं तथा । स्वनिवर्त्यं स्वदेशस्थं चेति वस्तु विशेष्यते ॥ एतादृगनुमानैश्च भावाज्ञानं प्रसाध्यते । अविद्याबोधकं शास्त्रं बहुलं चोपलभ्यते ॥ तेनाज्ञानेन विश्वस्य रचना परिकल्पते ॥ अङ्गीकृता च प्रायेण मानमेयप्रकल्पना । व्यवहारे भट्टनयादिति सर्वत्र विश्रुतम् ॥ 5 निर्विशेषविदां मानं मेयं स्याद्व्यावहारिकम् । व्यवहारानुरोधेन यथावदुपगम्यते ॥
विशिष्टाद्वैतदर्शनम् ७१ यद्यत्र न्यायसिद्धान्तानुरोधे सोऽवकल्पते । तदिष्यतेऽथवा सांख्यानुरोधे सोऽपि चेष्यते ॥ यद्वा भाट्टादिसिद्धान्तस्वीकारस्स्वरसो भवेत् । व्यवहारस्तदा भाट्टनयोऽपि परिगृह्यते ॥ तस्मादद्वैतसिद्धान्ते यःकश्चिदपिवा भवेत् । व्यवहारव्यवस्थायै न विशेषोऽत्र वस्तुतः ॥ तथाऽपि विदुषां प्रायो ह्यभ्यासो वैदिके नये । व्यवहारे भाट्टसांख्यसंग्रहो वासनावशात् ॥ (15) विशिष्टाद्वैतदर्शनम्. 1 विशिष्टाद्वैतसिद्धान्ते लिख्यते तत्त्वसंग्रहः । द्रव्याद्रव्यविभेदेन द्विविधं तत्त्वमिष्यते ॥ द्रव्यं द्वेधा विभक्तं स्यात् जडं चाजडमित्यपि । प्राच्यमव्यक्तकालौ स्तः ह्यन्त्यं प्रत्यक्परागिति ॥ जीवेश्वरविभेदेन प्रत्यक् द्विविधमिष्यते । मतिर्नित्यविभूतिश्चेत्युच्यते द्विविधं पराक् ॥ एवं द्रव्यं षड्विधं स्यात् अद्रव्यं दशधा मतम् ॥ शब्दादयः पञ्च सत्त्वं रजस्तम इति त्रयम् ॥ संयोगश्शक्तिरिति च द्वयं दशविधं ततः । संयोग एव कर्म स्यात् संस्थानं जातिरिष्यते ॥
2 मानमेयरहस्यश्लोकवार्तिके समवायोऽपृथक्सिद्धिः सिद्धिः ज्ञप्तिस्थिती मते । भावान्तरमभावः स्यात् जातिर्भेद इतीर्यते ॥ इतरत्त्वन्यथासिद्धं द्रव्यलक्षणया धिया । अचिच्चिदीशभेदेन केचित्त्रेधा विविश्चते ॥ भोग्यं भोक्ता नियन्तेति तस्यैव विवृतिस्त्वियम् । सर्वथेष्टं फलमिदं देहात्मेश्वरनिर्णयः ॥ तत्राव्यक्तं महदहंकारभूतादिभेदतः । चतुर्विंशतिधं कालः दिनमासादिभेदतः ॥ विभागवान् ईश्वरस्तु भवेदेकस्सदातनः । सर्वेश्वरः स्वातिरिक्तसर्ववस्तुविलक्षणः ॥ द्विलिङ्गो द्विविभूतिश्च परिपूर्णः परः पुमान् । जीवः पुनः नित्यमुक्तबद्धभेदादनेकधा ॥ मतिः प्रत्यात्मनियता नैकधा च विकारिणी । नित्यभूतिरनन्ता स्यात्परस्तात्तमसः सदा ॥ ईशान्तर्यामिकं कृत्स्नं ईशितुः कार्यमित्यपि । 2 आधेयं च विधेयं च शेषश्चेत्यपि सम्मतम् ॥ ततश्शरीरमिति तदपृथक्सिद्धमित्यपि । सर्वदा सर्वथा सर्वं सर्वत्रेति विनिर्णयः ॥ 3 सामानाधिकरण्योक्तस्यैक्यस्यानुपपत्तितः । विवर्तवादिनः केचित् तेऽविद्यावादिनोऽभवन् ॥
द्वैतदर्शनम् 73 उपाधिवादिनः केचित्परिणामं समाश्रिताः । भेदाभेदं वदन्त्यन्ये विशिष्टैक्यमिमे विदुः ॥ इदं तु तत्त्वविज्ञानं तदुपासनसाधनम् । याथात्म्यज्ञानपूर्वस्तु व्यवहारोऽनुपप्लवः ॥ कविधीचित्रवच्चात्रानन्ता सिद्धान्तसंततिः । तत्त्वालोकश्शास्त्रजन्यः समस्तां लोप्तुमर्हति ॥ भक्त्या परमया वाऽपि प्रपत्त्या वा परः पुमान् । प्राप्योऽसौ नान्यथा प्राप्य इति सिद्धान्तसंग्रहः ॥ (16) द्वैतदर्शनम्. 1 आनन्दतीर्थसिद्धान्ते तत्त्वोद्देशो विबुद्ध्यताम् । स्वतन्त्रमस्वतन्त्रं च प्रमेयं द्विविधं मतम् ॥ स्वतन्त्रो भगवान् विष्णुः निर्दोषोऽखिलसद्गुणः । द्विविधं परतन्त्रं स्यात् भावाभावविभेदतः ॥ चेतनोऽचेतनश्चेति भावोऽपि द्विविधो मतः । नित्यमुक्ता मुक्तियोग्या मुक्त्ययोग्या इति त्रिधा ॥ चेतनोऽचेतनस्तु स्यात् नित्योऽनित्य इति द्विधा । नित्याः स्युः प्रकृतिः कालः वेदश्चेति त्रिधा मताः॥ असंसृष्टं च संसृष्टं इत्यनित्यो द्विधा मतः । महदाद्यमसंसृष्टं अण्डं संसृष्टमिष्यते ॥ M.R. 10
4 मानमेयरहस्यश्लोकवार्तिके 2 गुणक्रियाजातिपूर्वाः धर्मास्सर्वेऽपि वस्तुनः । स्वरूपभूताः ये त्वेतेष्वयावद्वस्तुभाविनः ॥ भेदाभेदो मतस्तेषां स्याद्विकारविकारिणोः । कार्यकारणयोश्चैव तथैवांशांशिनोरपि ॥ विशिष्टशुद्धयोश्चैव भेदाभेदः स्वतः मतः । अयमत्र विशेषांशः ज्ञातव्यस्सर्ववादिभिः ॥ 3 एकं द्रव्यं गुणः कर्म सामान्यं सविशेषकम् । अभावश्शक्तिसादृश्ये अंशोंशीति विदुर्दश ॥ भेदहीने वस्तुनि या भेदबुद्धिनियामिका । शक्तिर्विशेषसंज्ञा सा मता सर्वपदार्थगा ॥ विशेषेण विभागोऽयं दशधाऽनेन कल्पते । व्यवहारव्यवस्था हि सर्वाऽनेनोपपाद्यते ॥ विशेषाणां तु वैशिष्ट्यं शक्तिशक्तनयात् स्थितम् भिन्नाश्च भिन्नधर्माश्च पदार्थास्सकला अपि ॥ नानुवृत्ता जातिरपि द्वैतकांष्टेयमुच्यते । प्राक्प्रध्वंससदाभेदात् अभावस्त्रिविधो मतः ॥ भावाभावस्वरूपत्वात् नान्योन्याभावता पृथक् । 4 सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥ बन्धो मोक्षः सुखं दुःखं आवृत्तिर्ज्योतिरेव च । विष्णुनैव समस्तस्य समासव्यासयोगतः ॥
य एतत्परतन्त्रं तु सर्वमेव हरेस्सदा । वशमित्येव जानाति संसारान्मुच्यते हि सः ॥ घातयन्ति हि राजानो राजाऽहमिति वादिनः । ददात्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥ मुक्तानामाश्रयो विष्णुः अधिकाधिपतिस्तथा । तद्वशा एव ते सर्वे सर्वदैव स ईश्वरः ॥ जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥ मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः । सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥ नच नाशं प्रयात्येषः नचासौ भ्रान्तिकल्पितः । कल्पितश्चेन्निवर्तेत नचासौ विनिवर्तते ॥ महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव विष्णोरिच्छा प्रकीर्त्यते ॥ तदिच्छयैव सकलं सर्वदा परिवर्तते । इति सिद्धान्तसारांशः शेषोऽन्यो ग्रन्थविस्तरः ॥ (17) आर्हतदर्शनम्. 1 अथार्हतानां सिद्धान्ते प्रमेयपरिचिन्तना । प्रायो वैशेषिकान्मीमांसकांश्चाप्यनुवर्तते ॥
76 मानमेयरहस्यश्लोकवार्तिके द्विधा च पञ्चधा चैव षोढा चापि च सप्तधा । नवधाऽपि विवक्षायाः भेदात्तत्त्वं विविच्यते ॥ प्रवादास्स्युर्मत्सरिणः परेऽन्योन्यविपक्षतः । समयोऽपक्षपातोऽसौ स्यादशेषाविशेषतः ॥ सर्वज्ञो जितरागादिदोषः त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन्परमेश्वरः ॥ 2 चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम् । तत्र बोधात्मको जीवोऽजीवोऽबोधात्मको मतः । क्षायिकश्चौपशामिकः मिश्रश्चौदयिकस्तथा । पारिणामिक इत्येते भावाः पञ्चात्मनो मताः ॥ बद्धमुक्तविभेदेन ते जीवाः द्विविधा मताः । न कश्चिन्नित्यसंसारी नित्यमुक्तो न कश्चन ॥ तथैव चिदचिद्भिन्नमीशतत्त्वं च नेष्यते । अचिच्च पुद्गलाकाशकालादिविविधं मतम् ॥ ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥ 3 जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच । आकाश इति षड्द्रव्यं अद्रव्यं च द्विधा मतम्
आर्हतदर्शनम् ७ गुणः पर्याय इति तत्स्वरूपं स्फुटमग्रतः । अनागतपरीणामावस्थं द्रव्यमितीर्यते ॥ तद्वर्तमानपर्यायं भाव इत्यभिधीयते । द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि ॥ तानि द्रव्याणि निर्दिष्टान्यद्रव्यं तु तदाश्रितम् । पर्येत्युत्पत्तिनाशौ यः स पर्याय इतीर्यते ॥ ताथागतैर्हि पर्यायः पारमार्थिक इष्यते । तदाधारं त्रिकालस्थं द्रव्यं नाभ्युपगम्यते ॥ तदाहि प्रत्यभिज्ञादेर्विरोधस्स्यादुरुद्धरः । अनिरोधमनुत्पादं जगत्स्यात्पुद्गलक्षणम् ॥ 4 परमाणुषु वाय्वादिविभागो नाभ्युपेयते । सामान्यं द्विविधं तिर्यगूर्ध्वताशब्दशब्दितम् ॥ तुल्या परिणतिर्या तु प्रतिव्यक्ति प्रदृश्यते । सामान्यं तत्तिर्यगिति तद्धि गोत्वादिलक्षणम् ॥ पूर्वापरपरीणामसाधारण्येन यत्पुनः । तदूर्ध्वताख्यं सामान्यं कटकादिषु काञ्चनम् ॥ विशेषोऽपि द्विरूपस्स्याद्गुणपर्यायभेदतः । सहभावी तु यो धर्मः स गुणः परिकीर्त्यते ॥ यथा चात्मनि विज्ञानव्यक्तिशक्त्यादिलक्षणः । क्रमभावी तु यो धर्मः स पर्यायः प्रकीर्त्यते ॥
78 मानमेयरहस्यश्लोकवार्तिके 5 आत्मन्येव सुखं दुःखमिच्छाद्वेषादिलक्षणम् । यत्सम्यग्दर्शनं ज्ञानं चारित्रं चेति तत्रयम् ॥ मोक्षमार्गश्चावरणक्षयोपशमकारणम् । श्रद्धा जिनोक्ततत्त्वेषु सम्यग्दर्शनमुच्यते ॥ जायते यन्निसर्गेण गुरोरधिगमेन वा । अवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥ सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥ पूरयन्ति गलन्तीति पुद्गलाः परमाणवः । वर्णगन्धरसस्पर्शगुणवद्द्रव्यलक्षणाः ॥ अनन्तदेशे द्रव्येऽस्तिकायशब्दः प्रयुज्यते । पञ्चास्तिकायाः कीर्त्यन्ते तेऽन्येऽणोः काललक्षणात् 6 सप्तधा वादिनो दृष्टाः सत्त्वासत्त्वादिनिर्णये । सर्वस्यात्राभ्युपगमात् सप्तभङ्गनयस्थितिः ॥ एकस्मिन् वस्तुनि प्रश्नवशेनैवाविरोधतः । कल्पना सप्तभङ्गेषा या विधिप्रतिषेधयोः ॥ वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपकः ॥ तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते ॥
[Header] आर्हंतदर्शनम् ७
क्रमेणोभयवीक्षायां प्रयोगस्समुदायवान् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तिः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥ समुच्चयेन युक्तस्य सप्तमो भङ्ग इष्यते । तत्सत्त्वैकत्वनित्यत्वसर्व्वरूपेषु नीयते ॥ सर्वोऽपि धर्मः प्रष्टव्यः सप्तधैव व्यवस्थितः । सर्वेऽप्यत्रान्तर्भवन्ति विधयो वेतरेऽपिवा ॥ तृतीयाद्यविवक्षायां अष्टमो भवतीति चेत् । द्विःसत्त्वानुपलम्भेन तृतीयात्मक एव सः ॥ तृतीयान्त्याविवक्षाऽपि ह्यसत्त्वाद्यमूलका । एवं विनिगमाभावमूलशङ्कानिराकृतिः ॥ प्रमेयाम्बुजमार्ताण्डे विस्तरस्त्ववगम्यताम् । प्रमाणनयतत्त्वालोकालंकारेऽपि विस्तृतः ॥ आप्तमीमांसादिसिद्धः संक्षेपादिह दर्शितः । विरोधस्य विधूत्यैवापक्षपातीति विश्रुतः ॥ 7 अथैतावन्त एवात्र पदार्थाः न परस्त्विति । तैस्तैः कथं विनिर्णीतः सिद्धयसिद्धयोरयोगतः । मैवं योऽस्त्येष संसिद्धान्न परस्त्विति कीर्तने । न दोषोऽस्ति प्रवक्तॄणां विकल्पानवकाशतः ॥
30 मानमेयरहस्यश्लोकवार्तिके अधिकानाधिकाशङ्का सत्येव स्यात्तवापिहि । नैवं चेन्नैव शङ्का वा परिहारोऽपि वा भवेत् ॥ तथाचात्रत्यैवकारः नान्ययोगनिषेधकः । एतावत्त्वायौगमेव छिनत्तीत्यवबुद्ध्यताम् ॥ (18) शक्तिवादः. 1 अतिरिक्तं पदार्थं तं शक्तिं ये गुरवो विदुः । अनुमानप्रमाणस्य प्रमेयं ते विजानते ॥ शक्तेर्गुणत्वमिच्छन्तो गुणलक्षणसंगतेः । अर्थापत्त्याऽधिगम्यां तां प्राहुः कौमारिला यथा यादृशादग्निसंयोगात्सर्वथा दाहदर्शनम् । तादृशादेव मन्त्रादिप्रयोगे तददर्शनात् ॥ अग्निसंयोगातिरिक्तं यत्किंचित्कारणान्तरम् । अस्ति दृश्यमदृश्यं वेत्येषा साधारणा प्रमा ॥ दृश्यादर्शनजाभावप्रमाणेन विहन्यते । तत्रानयोर्विरोधे सत्यविरोधाय कल्प्यते ॥ अदृश्यं कारणं किंचिद्द्रव्यकर्मगुणाश्रयम् । शक्तित्वसामान्ययोगात्सा शक्तिरिति गीयते ॥ 2 आधेया सहजा चेति द्विविधां तां प्रचक्षते । आद्या व्रीह्यादिसंस्कारः वह्न्यादौ स्यादनन्तरा