मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 109, कुल 672 में से
संदर्भ में पढ़ेंद्वैताद्वैतदर्शनम् 67 एकं रूपं प्रतीतत्वात् द्विरूपं च तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥ नरभेदान्न हि ज्ञेया वस्तुनस्सदसत्त्वता । नहि रूपमनन्धानां सत्यमन्धेष्वसद्भवेत् ॥ प्रपञ्चास्तित्वमज्ञस्य तस्यैव ज्ञानिनः पुनः । स एव किल नास्तीति कथं सत्यं वचो भवेत् ॥ नहि द्विचन्द्रः प्रागासीत् पश्चान्नास्तीति युज्यते । द्विचन्द्रज्ञानतुल्यत्वं प्रत्यक्षादेस्त्वपेक्ष्यते ॥ अतो भिन्नाभिन्नरूपं ब्रह्मेत्येवावधार्यते । न गृह्यते च करणदोषः तिमिरवत् स्वतः ॥ कार्यरूपेण नानात्वं अभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा ॥ अप्रच्युतस्वभावस्य शक्तिविक्षेपलक्षणः । परिणामः यथा तन्तुनाभस्य पटतन्तुवत् ॥ आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः । इत्युच्यते कैश्चिदत्र प्रत्युक्तिरियमुच्यते ॥ स्वरूपमेव वस्तूनां परस्परविलक्षणम् । नानात्वं तत्सुसंवेद्यं भेद इत्यभिधीयते ॥ पटरूपं घटे नास्ति घटरूपं पटे नहि । इति देशान्तराभावः अन्योन्याभाव उच्यते ॥