मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 110, कुल 672 में से
संदर्भ में पढ़ें58 मानमेयरहस्यश्लोकवार्तिके एतन्मूलमनेकान्तवादस्यापीति निर्णयः । कार्यकारणभावस्य मीमांसायां तु विस्तरः ॥ (14) विशुद्धाद्वैतदर्शनम्. 1 अथाद्वैतविदामेष प्रमेयपरिनिश्चयः । पदार्थो द्विविधः तत्त्वमतत्त्वं चेति संग्रहात् ॥ तत्त्वं ब्रह्मैकमेव स्यात् अतत्त्वं द्विविधं मतम् । अनिर्वाच्यमसच्चेति प्रथमं द्विविधं पुनः ॥ व्यावहारिकमाद्यं स्यात् द्वितीयं प्रातिभासिकम् । आद्यं चतुर्विधं प्राहुः प्रकृतिर्विकृतिस्तथा ॥ उभयात्मकमन्यत्स्यात् उदासीनं तुरीयकम् । आद्यत्रयं द्रव्यमुक्तं उदासीनं गुणः क्रिया ॥ जातिस्संख्या च शक्तिश्चेत्यनन्तविधमुच्यते । असच्च शशशृङ्गादिः विकल्पविषयस्तु सः ॥ विकल्पो निस्स्वभावस्य वस्तुनस्स्ववभासकः । प्रतीतिस्सस्वभावस्य वस्तुनस्त्विति निर्णयः ॥ 2 इयमेका प्रक्रियोक्ताऽथापराऽपि निशम्यताम् । अर्थो द्विधस्स्वतस्सिद्धः परतस्सिद्ध इत्यपि ॥ आद्य आत्मा त्वनात्माऽन्यः स च द्विविध इष्यते। साक्षिभास्यो वृत्त्यपेक्षसाक्षिभास्य इतीतरः ॥