भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 111, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 111

विशुद्धाद्वैतदर्शनम् 69 मनस्सुखादिराद्यः स्यात् द्वितीयोऽपि द्विधो मतः। मनोवृत्तिमपेक्षैकोऽविद्यावृत्तिमन्तरः ॥ घटादिः प्रथमस्तत्र सुषुप्त्यादिरनन्तरः । एवं शिक्षा पदार्थानां समग्राहि समासतः ॥ 3 ब्रह्मैवानाद्यनिर्वाच्याऽविद्यारूपोपधानतः । नामरूपप्रपञ्चाख्यप्रभेदेन विवर्तते ॥ यथा च मुखमेवैकं कृपाणमणिभेदतः । प्रतिबिम्बविभेदेन विविधं भुवि वर्तते ॥ प्रत्यासः परिणामश्च विवर्तश्चेति च त्रिधा । प्रवादास्तत्र चाध्यास एव प्रत्यासलक्षणः ॥ यथा च स्फाटिकी बुद्धिः लाक्षारुणिमगोचरा । यथा वा वनबुद्धिः स्यात्किंशुकादिसमूहिषु ॥ यथा वा शशशृङ्गादौ शब्दसत्त्वप्रकल्पना । यथा पदार्थेष्वेकत्वं स्फोटो वाक्यार्थ इष्यते ॥ तथाचाध्यास एष स्यादनेकं यत्र चैकधा । परिणामस्सुवर्णस्य मकुटाद्याकृतिः स्फुटा ॥ विवर्तो विविधा वृत्तिः यत्र चैकमनेकधा । एकं बिम्बमनेकेषूपाधिषु प्रतिबिम्बते ॥ एवं वाचस्पतेर्न्यायकणिकायां निरूपितः । भेदो विधिविवेकस्य व्याख्यायां अधुना पुनः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 111, कुल 672 में से · BharatKosha