मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 112, कुल 672 में से
संदर्भ में पढ़ें70 मानमेयरहस्यश्लोकवार्तिके समसत्ताककार्यं यत्परिणामस्स ईर्यते । कार्यं विषमसत्ताकं विवर्त इति गीयते ॥ 4 विवर्तसिद्धयै चाविद्या नाम दोषः प्रकल्प्यते । अर्थक्रियाकारितया स भावोऽज्ञानलक्षणः ॥ तच्चाज्ञानं नाग्रहणं न मिथ्याज्ञानमप्यथ । नापि तत्संस्कारभेदः किंतु त्रयविलक्षणः ॥ अहमज्ञो मां न जानामीत्यध्यक्षावभासतः । अज्ञानसिद्धिः नाभावः धर्मिज्ञानाद्यपेक्षणात् ॥ विवादाध्यासितं ज्ञानं स्याद्वस्त्वन्तरपूर्वकम् । अर्थप्रकाशकत्वाद्यदेवं तद्वै तथेष्यते ॥ यथा प्राथमिकी दीपप्रभा स्यात् ध्वान्तपूर्विका स्वप्रागभावातिरिक्तं विषयावरणं तथा । स्वनिवर्त्यं स्वदेशस्थं चेति वस्तु विशेष्यते ॥ एतादृगनुमानैश्च भावाज्ञानं प्रसाध्यते । अविद्याबोधकं शास्त्रं बहुलं चोपलभ्यते ॥ तेनाज्ञानेन विश्वस्य रचना परिकल्पते ॥ अङ्गीकृता च प्रायेण मानमेयप्रकल्पना । व्यवहारे भट्टनयादिति सर्वत्र विश्रुतम् ॥ 5 निर्विशेषविदां मानं मेयं स्याद्व्यावहारिकम् । व्यवहारानुरोधेन यथावदुपगम्यते ॥