मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 113, कुल 672 में से
संदर्भ में पढ़ेंविशिष्टाद्वैतदर्शनम् ७१ यद्यत्र न्यायसिद्धान्तानुरोधे सोऽवकल्पते । तदिष्यतेऽथवा सांख्यानुरोधे सोऽपि चेष्यते ॥ यद्वा भाट्टादिसिद्धान्तस्वीकारस्स्वरसो भवेत् । व्यवहारस्तदा भाट्टनयोऽपि परिगृह्यते ॥ तस्मादद्वैतसिद्धान्ते यःकश्चिदपिवा भवेत् । व्यवहारव्यवस्थायै न विशेषोऽत्र वस्तुतः ॥ तथाऽपि विदुषां प्रायो ह्यभ्यासो वैदिके नये । व्यवहारे भाट्टसांख्यसंग्रहो वासनावशात् ॥ (15) विशिष्टाद्वैतदर्शनम्. 1 विशिष्टाद्वैतसिद्धान्ते लिख्यते तत्त्वसंग्रहः । द्रव्याद्रव्यविभेदेन द्विविधं तत्त्वमिष्यते ॥ द्रव्यं द्वेधा विभक्तं स्यात् जडं चाजडमित्यपि । प्राच्यमव्यक्तकालौ स्तः ह्यन्त्यं प्रत्यक्परागिति ॥ जीवेश्वरविभेदेन प्रत्यक् द्विविधमिष्यते । मतिर्नित्यविभूतिश्चेत्युच्यते द्विविधं पराक् ॥ एवं द्रव्यं षड्विधं स्यात् अद्रव्यं दशधा मतम् ॥ शब्दादयः पञ्च सत्त्वं रजस्तम इति त्रयम् ॥ संयोगश्शक्तिरिति च द्वयं दशविधं ततः । संयोग एव कर्म स्यात् संस्थानं जातिरिष्यते ॥