मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 118, कुल 672 में से
संदर्भ में पढ़ें76 मानमेयरहस्यश्लोकवार्तिके द्विधा च पञ्चधा चैव षोढा चापि च सप्तधा । नवधाऽपि विवक्षायाः भेदात्तत्त्वं विविच्यते ॥ प्रवादास्स्युर्मत्सरिणः परेऽन्योन्यविपक्षतः । समयोऽपक्षपातोऽसौ स्यादशेषाविशेषतः ॥ सर्वज्ञो जितरागादिदोषः त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन्परमेश्वरः ॥ 2 चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम् । तत्र बोधात्मको जीवोऽजीवोऽबोधात्मको मतः । क्षायिकश्चौपशामिकः मिश्रश्चौदयिकस्तथा । पारिणामिक इत्येते भावाः पञ्चात्मनो मताः ॥ बद्धमुक्तविभेदेन ते जीवाः द्विविधा मताः । न कश्चिन्नित्यसंसारी नित्यमुक्तो न कश्चन ॥ तथैव चिदचिद्भिन्नमीशतत्त्वं च नेष्यते । अचिच्च पुद्गलाकाशकालादिविविधं मतम् ॥ ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥ 3 जीवो धर्मोऽप्यधर्मश्च पुद्गलः काल एवच । आकाश इति षड्द्रव्यं अद्रव्यं च द्विधा मतम्