मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 116, कुल 672 में से
संदर्भ में पढ़ें4 मानमेयरहस्यश्लोकवार्तिके 2 गुणक्रियाजातिपूर्वाः धर्मास्सर्वेऽपि वस्तुनः । स्वरूपभूताः ये त्वेतेष्वयावद्वस्तुभाविनः ॥ भेदाभेदो मतस्तेषां स्याद्विकारविकारिणोः । कार्यकारणयोश्चैव तथैवांशांशिनोरपि ॥ विशिष्टशुद्धयोश्चैव भेदाभेदः स्वतः मतः । अयमत्र विशेषांशः ज्ञातव्यस्सर्ववादिभिः ॥ 3 एकं द्रव्यं गुणः कर्म सामान्यं सविशेषकम् । अभावश्शक्तिसादृश्ये अंशोंशीति विदुर्दश ॥ भेदहीने वस्तुनि या भेदबुद्धिनियामिका । शक्तिर्विशेषसंज्ञा सा मता सर्वपदार्थगा ॥ विशेषेण विभागोऽयं दशधाऽनेन कल्पते । व्यवहारव्यवस्था हि सर्वाऽनेनोपपाद्यते ॥ विशेषाणां तु वैशिष्ट्यं शक्तिशक्तनयात् स्थितम् भिन्नाश्च भिन्नधर्माश्च पदार्थास्सकला अपि ॥ नानुवृत्ता जातिरपि द्वैतकांष्टेयमुच्यते । प्राक्प्रध्वंससदाभेदात् अभावस्त्रिविधो मतः ॥ भावाभावस्वरूपत्वात् नान्योन्याभावता पृथक् । 4 सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥ बन्धो मोक्षः सुखं दुःखं आवृत्तिर्ज्योतिरेव च । विष्णुनैव समस्तस्य समासव्यासयोगतः ॥