मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 115, कुल 672 में से
संदर्भ में पढ़ेंद्वैतदर्शनम् 73 उपाधिवादिनः केचित्परिणामं समाश्रिताः । भेदाभेदं वदन्त्यन्ये विशिष्टैक्यमिमे विदुः ॥ इदं तु तत्त्वविज्ञानं तदुपासनसाधनम् । याथात्म्यज्ञानपूर्वस्तु व्यवहारोऽनुपप्लवः ॥ कविधीचित्रवच्चात्रानन्ता सिद्धान्तसंततिः । तत्त्वालोकश्शास्त्रजन्यः समस्तां लोप्तुमर्हति ॥ भक्त्या परमया वाऽपि प्रपत्त्या वा परः पुमान् । प्राप्योऽसौ नान्यथा प्राप्य इति सिद्धान्तसंग्रहः ॥ (16) द्वैतदर्शनम्. 1 आनन्दतीर्थसिद्धान्ते तत्त्वोद्देशो विबुद्ध्यताम् । स्वतन्त्रमस्वतन्त्रं च प्रमेयं द्विविधं मतम् ॥ स्वतन्त्रो भगवान् विष्णुः निर्दोषोऽखिलसद्गुणः । द्विविधं परतन्त्रं स्यात् भावाभावविभेदतः ॥ चेतनोऽचेतनश्चेति भावोऽपि द्विविधो मतः । नित्यमुक्ता मुक्तियोग्या मुक्त्ययोग्या इति त्रिधा ॥ चेतनोऽचेतनस्तु स्यात् नित्योऽनित्य इति द्विधा । नित्याः स्युः प्रकृतिः कालः वेदश्चेति त्रिधा मताः॥ असंसृष्टं च संसृष्टं इत्यनित्यो द्विधा मतः । महदाद्यमसंसृष्टं अण्डं संसृष्टमिष्यते ॥ M.R. 10