मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 120, कुल 672 में से
संदर्भ में पढ़ें78 मानमेयरहस्यश्लोकवार्तिके 5 आत्मन्येव सुखं दुःखमिच्छाद्वेषादिलक्षणम् । यत्सम्यग्दर्शनं ज्ञानं चारित्रं चेति तत्रयम् ॥ मोक्षमार्गश्चावरणक्षयोपशमकारणम् । श्रद्धा जिनोक्ततत्त्वेषु सम्यग्दर्शनमुच्यते ॥ जायते यन्निसर्गेण गुरोरधिगमेन वा । अवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥ सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा ॥ पूरयन्ति गलन्तीति पुद्गलाः परमाणवः । वर्णगन्धरसस्पर्शगुणवद्द्रव्यलक्षणाः ॥ अनन्तदेशे द्रव्येऽस्तिकायशब्दः प्रयुज्यते । पञ्चास्तिकायाः कीर्त्यन्ते तेऽन्येऽणोः काललक्षणात् 6 सप्तधा वादिनो दृष्टाः सत्त्वासत्त्वादिनिर्णये । सर्वस्यात्राभ्युपगमात् सप्तभङ्गनयस्थितिः ॥ एकस्मिन् वस्तुनि प्रश्नवशेनैवाविरोधतः । कल्पना सप्तभङ्गेषा या विधिप्रतिषेधयोः ॥ वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात् तिङन्तप्रतिरूपकः ॥ तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगस्स्यात् तन्निषेधे विवक्षिते ॥