भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 123, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 123

शक्तिवादः 81 3 अत्र वैशेषिकाः प्राहुः शक्तिं नाभ्युपयन्ति ये । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ स्वगुणाः परमाणूनां विशेषाः पाकजादयः । भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥ प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः । स्वरूपादुद्भवत्कार्यं सहकार्युपबृंहितात् ॥ नहि शक्तं कल्पयितुं शक्तिमन्यामतीन्द्रियाम् । एतत्पद्यं पठन्तीत्थं त एते शक्तिवादिनः ॥ स्वरूपात् क्वाप्यनुद्यत्तत्सहकार्युपबृंहितात् । किं न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ॥ 4 इदं फलं शक्तिवादे तत्तद्वाद्यभिसंहितम् । करणं चाप्यकरणं क्षणभङ्गस्य कारणम् ॥ निरास्थन् वैदिकाश्शक्त्या तार्किकास्सहकारिणा । स्वभाववादावकाशः शक्तिवादे प्रसज्यते ॥ इति तार्किकसंत्रासः ह्यर्थस्वाभाविकाः परे । रहस्यमेतदेव स्यात्सामान्याच्छक्तिवादिनाम् ॥ 5 कार्यानुकूलमपृथक्सिद्धं यत्तु विशेषणम् । तच्छक्तिशब्दितं सर्वं विष्णुशक्तिरतः स्मृतम् ॥ न शक्तिः शक्तमात्रं स्यात् सर्वाद्धैतप्रसक्तितः । नवापीष्टापत्तिरत्र जयी स्यान्मध्यमागमः ॥ M. P. 11