मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 124, कुल 672 में से
संदर्भ में पढ़ें32 मानमेयरहस्यश्लोकवार्तिके इति भेदविदामौपनिषदानां परिष्कृतिः । अभेदविदुषां शक्तितद्वतोः भेदनिह्नवः ॥ वटबीजे वृक्षशक्तिः ह्याश्रयान्न विभिद्यते । कया चिदपि युक्त्येति तादात्म्यविभवो ह्यसौ ॥ तादात्म्यतत्त्वे तत्सर्वं स्पष्टमग्रे निरूप्यते । यत्र चैवौपनिषदा बहुधा हि विशेरते ॥ (19) शब्दशक्तिवादः. 1 शब्दशक्तिविशेषे तु रहस्यं बहु विद्यते । तदप्यत्रैव संक्षिप्य सूचयामः कुतूहलात् ॥ शब्देऽनवयवे स्फोटे तदर्थे जातिलक्षणे । अध्यासलक्षणा शक्तिस्संबन्ध इति शाब्दिकाः ॥ शब्दार्थयोश्च संबन्धं केचित्तादात्म्यलक्षणम् । नित्यं चाभ्युपगच्छन्ति परिणामं तु केचन ॥ तद्विम्बप्रतिबिम्बत्वं कैश्चिदत्र विकल्प्यते । एवं तयोर्योगभेदाः स्युर्जगद्ब्रह्मणोरिव ॥ 2 शाक्यदृष्ट्या तु शब्दार्थे बौद्धे विज्ञाननीतितः । कार्यकारणभावाख्यस्संबन्ध इति निश्चितम् ॥ 3 शब्दशक्तियोग्यताख्या वहेरोष्ण्यादिशक्तिवत् । रूपादिज्ञानजनने चक्षुरादेरि वेष्यते ॥