भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

32 मानमेयरहस्यश्लोकवार्तिके इति भेदविदामौपनिषदानां परिष्कृतिः । अभेदविदुषां शक्तितद्वतोः भेदनिह्नवः ॥ वटबीजे वृक्षशक्तिः ह्याश्रयान्न विभिद्यते । कया चिदपि युक्त्येति तादात्म्यविभवो ह्यसौ ॥ तादात्म्यतत्त्वे तत्सर्वं स्पष्टमग्रे निरूप्यते । यत्र चैवौपनिषदा बहुधा हि विशेरते ॥ (19) शब्दशक्तिवादः. 1 शब्दशक्तिविशेषे तु रहस्यं बहु विद्यते । तदप्यत्रैव संक्षिप्य सूचयामः कुतूहलात् ॥ शब्देऽनवयवे स्फोटे तदर्थे जातिलक्षणे । अध्यासलक्षणा शक्तिस्संबन्ध इति शाब्दिकाः ॥ शब्दार्थयोश्च संबन्धं केचित्तादात्म्यलक्षणम् । नित्यं चाभ्युपगच्छन्ति परिणामं तु केचन ॥ तद्विम्बप्रतिबिम्बत्वं कैश्चिदत्र विकल्प्यते । एवं तयोर्योगभेदाः स्युर्जगद्ब्रह्मणोरिव ॥ 2 शाक्यदृष्ट्या तु शब्दार्थे बौद्धे विज्ञाननीतितः । कार्यकारणभावाख्यस्संबन्ध इति निश्चितम् ॥ 3 शब्दशक्तियोग्यताख्या वहेरोष्ण्यादिशक्तिवत् । रूपादिज्ञानजनने चक्षुरादेरि वेष्यते ॥

शब्दशक्तिवादः 83 स्वाभाविकी सा शब्दानां विज्ञातैवार्थकारिणी । यतश्शब्दार्थसंबन्धो बोध्यबोधकतैव सः ॥ धूमादीनां तु संबन्धान्तरात् गमकता मता । चेष्टावद्बोधकत्वं स्याद्यदि संकेतमूलकः ॥ संकेतकर्तृपुरुषाज्ञानं चात्रास्ति बाधकम् । इति शब्दार्थसंबन्धनित्यतावादिनो विदुः ॥ ते च मीमांसकाः पूर्वोत्तराः नव्याश्च शाब्दिकाः। यथात्र वैयाकरणभूषणोक्तं विमृश्यताम् ॥ इन्द्रियाणां स्वविषये ह्यनादिर्योग्यता यथा । अनादिरर्थैश्शब्दानां संबन्धो योग्यता तथा ॥ शाब्दधीजनकत्वावच्छेदकत्वेन वीक्षितः । स्वीकर्तव्यः पुनः शब्दः सङ्केतेनार्थबोधकः ॥ अर्थधीजनकत्वेन ज्ञातः शब्दस्स्वभावतः । बोधकस्स्यादिति मते लाघवं परिदृश्यते ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानां द्वे शक्ती अपि ते विदुः ॥ तस्मात्स्वभावसिद्धान्तो वरं समयकल्पनात् । अत्र नैयायिकमनोरथतत्त्वं विचिन्त्यताम् ॥ 4 नैयायिकाः पुनः प्राहुः शक्तिं सङ्केतलक्षणाम् । इच्छा हि किल सङ्केतः नित्योऽनित्योऽपिवाऽस्तु सः

4 मानमेयरहस्यश्लोकवार्तिके बौद्धा वैशेषिकाश्चैव शब्दमानापलापिनः । कथंचिदनुमानान्तर्भावमेते प्रचक्षते ॥ स्वाभाविकस्तु संबन्धश्शक्तिर्यद्युपगम्यते । निरुपाधिकसंबन्धो व्याप्तिरेव स निश्चितः ॥ शब्दोऽनुमानमेव स्यादतस्सङ्केत इष्यते । अत्र वैदिकसिद्धान्तसमाधिरवगम्यताम् ॥ सङ्केतो वाऽतिरिक्तो वा योऽविनाभावरूपतः । ज्ञातश्चेदनुमैव स्यात् न स्यात् ज्ञातः स्वरूपतः ॥ तथात्वप्रतिसंधानाभावेऽप्यनुभवोदयात् । शब्दो मानान्तरं तस्मादन्यथा सर्वविप्लवः ॥ अत्र प्राभाकराः प्राहुश्शब्दस्स्याल्लौकिकोऽनुमा । वैदिकस्त्वतिरिक्तोऽस्त्वित्येषाऽर्धजरतीयता ॥ सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः । इति न्यायः स्वीकृतः स्यादिति तत्त्वविदो विदुः ॥ 5 शक्तेरस्याः पुनश्शक्यविकल्पोऽप्यवधार्यताम् । व्याडी च वैयाकरणः व्यक्तिशब्दार्थवाद्यसौ ॥ वाजप्यायननामा यः जातिशब्दार्थवायसौ । 6 शक्तिर्जात्याकृतिव्यक्तिष्विति नैयायिका विदुः ॥ जातिव्यक्त्योरेव शक्तिर्गुणकर्माभिधायिनाम् । न तयोराकृतिर्यस्मात्प्रतीकव्यूहलक्षणा ॥

शब्दशक्तिवादः 85

आकाशाद्या जातिहीनाः शब्दास्स्युः पारिभाषिकाः ते शब्दाद्याश्रयतया शाब्दधीहेतवो मताः ॥ यथा न स्याल्लक्ष्यतावच्छेदके लक्षणा तथा । शक्यतावच्छेदकेऽपि शक्तिर्नव्यैर्न चेष्यते ॥ 7 अथ भाट्टैः शक्तिरेषा जातावेवाभ्युपेयते । जातिरेवाकृतिस्तेषां व्यक्तिराक्रियते यया ॥ जातेश्चोपस्थितिः शक्त्या निर्विकल्पकलक्षणा । आक्षेपाद्व्यक्तिलाभस्स्यादाक्षेपोऽप्यनुमा मता ॥ स्यादर्थापत्तिरथवा जातिहीनास्तु ये स्वनाः । अखण्डोपाधयस्तेषामर्था नित्या हि तन्मताः ॥ 8 शक्तिर्जातौ व्यक्तिलाभो लक्षणाधीन इष्यते । इति मण्डनसिद्धान्तः गदाधरसुधीरितः ॥ जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति । नित्यत्वाल्लक्ष्यमाणायाः व्यक्तेस्ते हि विशेषणे ॥ इति पद्यं शक्तिवादे मानत्वेन ह्यनूदितम् । वाक्याधिकरणे श्लोकवार्तिकेऽपिच दृश्यते ॥ 9 व्यक्तेरौपादानिकी स्याद्बुद्धिरित्यपरे विदुः । एष श्रीकरसिद्धान्तः शक्तिवादे निरूपितः ॥ यदत्रानुपपत्तेस्तु प्रतिसंधानमुच्यते । उपादानं नाम तत्स्यात् सैषार्थापत्तिरन्ततः ॥

86 मानमेयरहस्यश्लोकवार्तिके 10 शक्तिर्जातावेव तत्र शक्तिधीरेव बोधिका व्यक्तेरिति विदुः प्राभाकराः बोधक्रमस्त्वरम् व्युत्पत्तितो जातिशक्तिज्ञानाज्जातिप्रकारतः व्यक्तिस्मृतिः तथैव स्यात् शाब्दधीरिरिति तन् 11 जातिज्ञाने शक्तिरिति जरन्मीमांसकाः वि ज्ञाने शक्तमिति ज्ञानाच्छाब्दबोधस्तु तन्म 12 गुर्वेकदेशिनः व्यक्तौ कुब्जशक्तिं प्रचक्षते कुब्जत्वं च स्वरूपेण व्यक्तौ शक्तेस्तु हेतु प्रतिबन्धं विना पक्षधर्मताशक्तिवैभवात् । लिङ्गं लिङ्गिविशेषे तु यथा वै पर्यवस्यति विनाऽपि संगतिं शक्तिविशेषात्पर्यवस्यति व्यक्तौ शक्तिरिति प्राहुः कुब्जशक्तिविदो बु यस्याः कारणता शक्तेः शाब्दबोधे न वि सा कुब्जा रुचिदत्तस्य मकरन्दकृतो मता 13 सर्वेष्वर्थेषु शक्तास्स्युस्सर्वे शब्दाः स्वभाव समयान्नियमस्सिद्ध इत्यप्याहुः कुमारिला सर्वाकारपरिच्छेद्यशक्तेऽर्थे वाचकेऽपिवा । सर्वाकारार्थविज्ञानसमर्थे नियमः कृतः ॥ एष सर्वात्म्यसिद्धान्तः नैरात्म्यैकान्तभञ्ज पदार्थास्तित्वसिद्धान्तवादिनां प्रायशो मत

सादृश्यवादः 8 अन्ये दार्शनिकास्तत्र यंकंचिन्मार्गमाश्रिताः । एतावताऽस्तूपरमः बुधा विस्तरभीरवः ॥ (20) सादृश्य वादः. 1 सादृश्यनामकः कश्चित्पदार्थस्सर्ववस्तुगः । नानाप्रकारः प्रत्यक्ष इति प्राभाकरा विदुः ॥ तदेव चोपमानस्य प्रमेयमिति कीर्त्यते । दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् ॥ असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता । गवयस्थितसादृश्यदर्शनं करणं मतम् ॥ फलं गोगतसादृश्यज्ञानमित्यभिधीयते । वेदार्थनिर्णये तस्य चोपयोगोऽवधार्यताम् ॥ सौर्यवाक्ये तु संदृष्टे चौषधिद्रव्यकत्वतः । एकदैवत्यत्वतश्च ह्याग्नेयमुपतिष्ठते ॥ तस्मिंश्चोपमिते तेन तदर्थोऽपि प्रमीयते । सौर्येणाग्नेयवद्ब्रह्मवर्चसं भावयेदिति ॥ एवं शास्त्रोपयोगित्वात् प्रमेयत्वात्पृथक्त्वतः । सादृश्यं नाम सिद्धोऽस्ति पदार्थः सार्वलौकिकः। 2 कुमारिलस्य सिद्धान्ते सादृश्यं नातिरिच्यते । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥

88 मानमेयरहस्यश्लोकवार्तिकं एकस्य वस्तुनस्स्वावयवे कर्मणि वा गुणे । समवेतैश्च सामान्यैः योगो येन प्रकारतः ॥ तेनैवच प्रकारेण योगो वस्त्वन्तरस्य तत् । अतस्संबन्धिसामान्ययोगस्सादृश्यमुच्यते ॥ स च योगोऽनुवृत्त्याख्यः सप्रतिद्वन्द्विलक्षणः । सादृश्यमेव सारूप्यं सामान्यं चेति निर्णयः ॥ सदृशावयवत्वं तु यत्र पद्मदळाक्षिवत् । तत्स्वावयवसामान्यभूम्ना तेषां भविष्यति ॥ एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतः । एकैकद्वित्रिसामस्त्यभेदादेतस्य चित्रता ॥ न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया । भूयस्त्ववद्धि जात्यादि सदृशत्वेन दृश्यते ॥ क्वचिच्च भूयसामेतत् क्वचिदल्पीयसामपि । नैतावता विशेषेण वस्तुत्वं तस्य हीयते ॥ सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतः । अनन्ताश्रययोगाच्च न नाशोऽन्यत्र विद्यते ॥ तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते । सर्वस्य ह्याश्रयः कश्चित् अस्ति देशान्तरादिषु । सदृशावयवत्वं तु यत्र नाम प्रतीयते । तदप्यवयवानां स्यात् समानावयवान्तरैः ॥

सादृश्यवादः ८९ रूपगन्धरसानां च कस्यचित्तुल्यता क्वचित् । नावश्यं सर्वसामान्यात् सादृश्यमुपजायते ॥ धर्माणां नच नानात्वमस्ति चावान्तरस्थितिः । तेन भिन्नमभिन्नं च सादृश्यमिति निर्णयः ॥ सादृश्यं न त्ववस्तु स्यान्नापि तत्त्वान्तरं मतम् । किंतु संबन्धिसामान्ययोग इत्यवधारितम् ॥ ३ तद्भिन्नत्वे च तन्निष्ठभूयोधर्मानुयोगिता । सादृश्यं ते पुनर्धर्माः जातिकर्मगुणादयः ॥ इति वैशेषिकप्राञ्चः नव्यास्तस्यातिरिक्तताम् । आहुरेते न सप्तैव पदार्था इति वादिनः ॥ ४ सारूप्यमेव सामान्यं तच्च सादृश्यमित्यपि । इतिचाकृतिवादे हि सांख्यसिद्धान्त ईरितः ॥ सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते । तेन सारूप्यशब्देन किं पुनः प्रतिपद्यते ॥ समानरूपभावश्चेत् जातिस्साऽस्माभिरिष्यते । सादृश्यमथ सारूप्यं कस्य केनेति कथ्यताम् ॥ नचावयवसामान्यैर्विना सादृश्यकल्पना । सामान्यप्रत्ययोत्पादो न विशेषेषु जायते ॥ व्यक्तिश्चातिरेकोऽस्य स्यान्न वेति विचारिते । सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमात्रकम् ॥ M. R. 12

मानमेयरहस्यश्लोकवार्तिके तेन नात्यन्तभिन्नोऽर्थः सारूप्यमिति वर्णितम् । ग्रन्थे विन्ध्यनिवासेन भ्रान्तेः सादृश्यमुच्यते ॥ इतिचाकृतिवादान्ते सांख्यानां विन्ध्यवासिनाम् सामान्यमेव सादृश्यं न तत्त्वान्तरकल्पना ॥ तत्त्वतोऽनवगत्यैव त्वर्थं सादृश्यलक्षणम् । सामान्यनिह्नवः कैश्चित्कृत इत्युपपादितम् ॥ सारूप्यमेव सामान्यमिति युक्तं न सांख्यवत् । विजातीयेषु तद्दृष्टेः गवादिगवयादिषु ॥ इत्याह न्यायमञ्जर्यां शब्दनित्यत्वरूपणे ॥ 5 न वस्तुरूपं सादृश्यं वासनामात्रनिर्मितम् । प्रतियोगिमतिं यस्मादपेक्ष्यैवावबुद्ध्यते ॥ तज्ज्ञानं च ततः शाक्यैः प्रत्यक्षाभासमिष्यते । यतश्च कल्पनाध्यक्षवादिनः ते प्रकीर्तिताः ॥ (21) तमोवादः. 1 तमः खलु चलं नीलं बहुलं विरलं परम् । अपरं च महद्दीर्घं ह्रस्वं चेति प्रतीयते ॥ कदाचिदपि कस्यापि नैव बाधोऽत्र दृश्यते । प्रभामण्डलवच्चेदं द्रव्यमित्येव वैदिकाः ॥ 2 पृथिव्या एव भेदोऽयं तमस्स्यादितिकेचन । प्रकृतेरेव भेदस्स्यादिति वेदान्तिनो विदुः ॥

तमोवादः आलोकेनोत्सारितत्वात् विनष्टत्वादथापिवा । अभिभूतत्वतो वाऽपि तन्मध्ये नोपलभ्यते ॥ विषयाच्छादकत्वं तु तमसो नहि युक्तिमत् । तमोव्यवहितालोकस्थितनानार्थदर्शनात् ॥ अतो मर्त्यादिदृष्टीनां दृश्यसंबन्धमात्रतः । दर्शनप्रतिघातित्वं स्वभावात्तमसि स्थितम् ॥ वायू रूपेण रहितः स्पर्शेन सहितो यथा । तथा रूपेण सहितं स्पर्शेन रहितं तमः ॥ ३ गुरूणां तु मते तेजोहीनाधिकरणं तमः । ग्राहकात्मोपलब्धेश्च नीलरूपस्मृतेरपि ॥ नीलं तम इति ज्ञानं भेदाग्रहनिबन्धनम् । आलोकक्रिययैव स्याच्चलतिप्रत्ययोऽपिच ॥ ४ तेजोऽभावस्तम इति काणादकिरणावलिः । अन्धसाधारणं रूपज्ञानाभावं विदुः परे ॥ आरोपितं निरालोके देशे मालिन्यवत्तले । नीलं रूपं तम इति सिद्धान्तः कन्दलीकृतः ॥ ५ अणवः सर्वशक्तित्वात् तमश्छायाऽऽतपात्मना । अभ्राणीव प्रचीयन्त इति प्राहुरिहार्हताः ॥ ६ निरधिष्ठानविज्ञानवादिवैभाषिकादयः । केशोण्डुकादिविज्ञानं भ्रम इत्यभिमन्यते ॥

92 मानमेयरहस्यश्लोकवार्तिके 7 भूच्छायादर्शनं लोके तमोदर्शनमुच्यते । इत्युक्तवानपि विधिविवेके किल मण्डनः ॥ एवंरूपः तमस्तत्त्वे विकल्पः परिदृश्यते । निरूप्यते यथा यच्च तत्तथा व्यवतिष्ठते ॥ (22) कालवादः. 1 सांख्यसौगतचार्वाकैः क्रियते कालनिह्नवः । वैशेषिकादयः कालं मन्यन्ते दुरपह्नवम् ॥ अनुमेयं विदुः प्रायः परे दार्शनिकाः पुनः । प्रत्यक्षगोचरं प्राहुः इत्थमेषोऽपलप्यते ॥ उपाधिभिर्वा बुद्धिस्थैः तादृग्भिर्वाऽथ बुद्धिभिः । व्योमादिभिर्वा विभुभिः कालं निह्नुवते बुधाः ॥ नतावद्गृह्यते कालः प्रत्यक्षेण घटादिवत् । चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः ॥ नचामुनैव लिङ्गेन कालस्य परिकल्पना । प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत् ॥ प्रतिभासातिरेकस्तु कथंचिदुपपत्स्यते । प्रचितां कांचिदाश्रित्य क्रियाक्षणपरंपराम् ॥ नचैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः । कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥

कालवादः मुहूर्तयामाहोरात्रमासर्त्वयनवत्सरैः । लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥ यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः अतीतवर्तमानादिभेदव्यवहृतिः कुतः ॥ तादृक्स्वभावसहितः कालो यद्यतिरिच्यते । सिद्धस्यैवहि तादृक्स्वभावोपगमो वरम् ॥ २ अथानुमेयसिद्धान्तः संगृह्यात्र प्रदर्श्यते । परापरं चिरं क्षिप्रं युगपत्क्रमिकं त्विति ॥ व्यवहाराः पुनः सूर्यपरिस्पन्दनिबन्धनाः । मूतैस्साक्षान्न संसर्गः कर्मणामर्कवर्तिनाम् ॥ क्रियोपनायकः कश्चित्स्यादेवोभयसंयुतः । परत्वादौ हेतुरेतत्संयोगोऽसमवाय्यसौ ॥ नाकाशेनान्यथासिद्धिः अविशेषादिगादिभिः । दिक्कालाविश्वरान्नव्यैरतिरिक्तौ नचेष्यते ॥ स एवात्रोपनेता स्यादित्येतेषां हृदि स्थितम् । अप्रत्यक्षत्वमात्रेण नच कालस्य नास्तिता ॥ युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् । प्रत्यक्षत्वादुपाधीनां प्रत्यभिज्ञादिसंभवः ॥ उपाधयः स्वरूपेण कालाश्चेदनवस्थितिः । चिरेणास्तंगतो भानुः शीतांशुः शीघ्रमुद्गतः ॥

उदिताविव दृश्येते युगपद्भौमभार्गवौ । इत्यादिव्यवहारेण तदुपाधिगवेषणाम् ॥ ननु त्वत्कल्पितः कालः स्वत एव क्रमात्मकः । हेत्वन्तराद्वा प्रथमे कार्याणि न कुतस्स्वतः ॥ द्वितीये त्वनवस्था स्यात् अन्यस्मादित्यपेक्षणात् मैवं, शुक्लगुणादावप्येवं वक्तुं हि शक्यते ॥ स्वतोऽस्य तत्स्वभावत्वे द्रव्यस्य न कुतस्तथा । गुणान्तरस्यापेक्षायामनवस्था प्रसज्यते ॥ स्वतः क्रमाद्यात्मकोऽसौ काल इत्यवधार्यते । नाध्वव्यङ्ग्यः काल एषः वर्तमानविलोपतः ॥ ३ किंतु क्रियाव्यङ्ग्य इति सौगतेतरपद्धतिः । रहस्यं पक्षयोस्तत्र संक्षेपादिह सूच्यते ॥ कालो यदि क्रियाव्यङ्ग्यः क्षणिकत्वं न सिद्ध्यति क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः । इति सिद्धान्तभङ्गस्स्यात् इति सौगतमानसम् । पतितः पतितव्यश्च देशो द्विविध एव हि ॥ ४ वर्तमाननिषेधे च भवित्री विश्वनिह्नुतिः । न ह्यतीतं भविष्यद्वा प्रत्यक्षविषयोऽस्ति नः ॥ वर्तमानभ्रमश्चात्र तत एव न सिद्ध्यति । पौर्वापर्यातिरिक्ता तु दुस्त्यजा वर्तमानता ॥

कालवादः अतीतागामिधीरेव वर्तमानमतिर्यदि । भूतभाविसमस्ताप्त्या न शोकादिसमुद्भवः ॥ पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि । त्रिकालस्थेऽपि तत्सिद्धेः क्वातीतागामिता भवेत् ॥ प्रारब्धश्चासमाप्तश्च वर्तमानो य उच्यते । व्यापारसमुदायोऽसौ विवक्षितफलावधिः ॥ तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः । वैवक्षिकमिहान्यच्च वर्तमानत्वमक्षतम् ॥ सत्त्वं यद्वर्तमानत्वं कालसंबन्धलक्षणम् । तस्य स्वपरनिर्वाहान्नानवस्था प्रसज्यते ॥ मानसंबन्धरूपं तु सत्त्वं सर्वगतं मतम् । सत्त्वमित्थमविद्वांसः कालोऽसन्निति बभ्रमुः ॥ विशेषलिङ्गाभावेन तल्लिङ्गस्याविशेषतः । एकस्तथा विभुश्चापि सर्वत्र व्यवहारातः ॥ आश्रयानुपलम्भेन निरंशो नित्य एव च । द्रव्यं चेति स्वीकृतोऽसाविति वैशेषिकाशयः ॥ 5 शैवादिभिः पुनः कालो ह्यनित्योऽव्यापकोऽपि च हेतुः परिमितं कार्यं प्रतीत्यभ्युपगम्यते ॥ नित्यता सर्वदा सत्ता नहि कालस्य संभवेत् । यतः कालान्तरं नास्ति किंतु ध्वंसविहीनता ॥

96' मानमेयरहस्यश्लोकवार्तिके कालतत्त्वस्य चोत्पत्तिं विनाशं चानुजान उत्पत्तेः प्राक्च पश्चाच्चेत्याद्या वाचो निर 6 कालतो देशतो वाऽपि व्यतिरेकस्य चाग्र कथं च नित्यस्य विभोः कालादेर्हेतुतेति धर्मिग्राहकमानेन कारणत्वमिहेष्यते । क्वचिल्लोकोपदेशेनाप्यस्ति कारणताग्रहः कारणत्वं तु नियतप्राग्वृत्तित्वं ननूच्यते अस्मिन् सत्येवेदमिति नियमः सुग्रहः प्रसंगतोऽपि नियमसिद्धिस्स्यादिह तथ्यथ यद्येतन्न भवेत्सर्वं नोत्पद्येत ततस्त्विदम् सर्वोत्पत्तिनिमित्तं स्यादित्यत्रास्ति प्रसंगज इदं यत्र यदा नास्ति नास्ति तत्र तदाऽपि इत्याकारस्तु नियमः नहि तत्र विवक्षित अतः कालस्सर्वहेतुरित्युक्तिर्न विरोत्स्यते 7 इति कालानुमेयत्ववादिनां रीतिरीरिता अथ तत्प्रत्यक्षवादिवैदिकानां मतिस्त्विय कालोऽनादिरनन्तश्च प्रत्यक्षश्चेति सम्मतः विशेषणतया कार्यप्रत्यये प्रतिभासनात् कालोपश्लिष्टवेषेण ह्यभूदस्तिभविष्यतीन् प्रयुञ्जतेऽर्थभेदेषु सदा चास्तिमनेहसः ॥

तस्मात्सर्वेन्द्रियग्राह्य इति तत्त्वविदां मतम् । सर्वेन्द्रियज्ञानवादो यथा सत्तागुणत्वयोः ॥ कालांशस्यानुमेयत्वे पदार्थेऽपि प्रसज्यते । तदा सौत्रान्तिकादीनां कोऽपराधोऽतिरिच्यते ॥ कालानुमेयवादे तु पामराणामधोगतिः । कालानुमा चोक्तरीत्या सर्वदा न विपश्चिताम् ॥ क्रमेण युगपत् क्षिप्रं चिरात्कृतमितीदृशाः । प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥ अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा । रूपमेव तवारूपं कथं गृह्येत चक्षुषा ॥ कथं वा रूपवन्तोऽपि परोक्षाः परमाणवः । तस्मात्प्रतीतिरन्वेष्या किं निमित्तपरीक्षया ॥ नचानुद्घाटिताक्षस्य चिरादिप्रत्ययोदयः । तद्भावानुविधानेन कालस्स्यादेव चाक्षुषः ॥ एवं गुरु द्रव्यमिति प्रत्ययात्तदपीदृशम् । पूर्वापरप्रत्ययेन दिशोऽप्यध्यक्षतां विदुः ॥ 8 नित्योऽप्येकोऽप्यसौ कालः द्रव्यत्वाद्भिदुरो मतः अवस्थाभेदतः ते चोपाधिसंबन्धलक्षणाः ॥ स्वयं विक्रियतेऽजस्रं स क्षणाद्यात्मनेत्यपि । यद्यादवप्रकाशोक्तं तदप्यनुमतं बुधैः ॥

अत एवच मासादेः स्याद्विवक्षानुसारतः । आद्यन्तमध्यमोत्पत्तिकषणप्रभृतिकल्पना ॥ क्षणादिभेदाभावे तु कथं वा स्यादुपाधिभिः । भेदस्तेषां कालमात्रे संबन्धान्निर्विशेषणे ॥ विकारपक्षे कृत्स्नैकदेशयोगविकल्पना । परिहार्या ह्याश्रयैकदेशवृत्तिगुणादिवत् ॥ उपाधिसंबन्धमात्रपक्षेऽपि न विशिष्यते । परिहारोऽयमिति च प्राहुर्लाघवदृष्टयः ॥ स्पन्दसंततिसिद्धयर्थं कालस्याणुत्वकल्पनम् । आशावसनसिद्धान्ते युक्तिचातुर्यजृम्भितम् ॥ क्रियासंततिवत्काले परिणामपरंपरा । किं न स्यात्स्वापकर्षाद्यैः परत्वादिप्रसाधिका ॥ 9 एकाश्रयक्रियासंख्या काल इत्यपरे विदुः । तदुपाधिविशेषाणामुपलक्षणतत्परम् ॥ अव्यक्तं परमाकाशः कालश्चेति त्रिधा स्थिता सैषा प्रकृतिरित्यन्ये ह्येकदेशविदो बुधाः ॥ 10 कालोपाधिविशेषाश्च मञ्जरीप्रकटीकृताः । संगृह्यन्ते सुमनसां स्वान्तविक्षेपशान्तये ॥ चञ्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः । कथ्यते कोकिलैरेव मधुः मधुरकूजितैः ॥

कालवादः 9 दिवाकरकरालातपातनिर्दग्धवीरुधः । मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥ शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः । प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ मौक्तिकाकारविस्तारितारानिकरचित्रितम् । शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥ आयामियामिनीभोगसफलाभोगविभ्रमाः । हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥ आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः । वदन्ति शिशिरं वाताः तुषारकणकर्कशाः ॥ तस्मादेकोऽप्ययं कालः क्रियाभेदाद्विभिद्यते । एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥ 11 कौमारिलाश्श्रावणत्वमाहुर्दिक्कालयोरपि । कालश्चैको विभुर्नित्यः प्रविभक्तोऽधिगम्यते ॥ वर्णवत् सर्वभावेषु व्यज्यते केनचित्क्वचित् । आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये ॥ कालस्य प्रविभागास्ते जायन्ते ध्वन्युपाधयः । तस्मात्सर्वेन्द्रियग्राह्यः सत्तावत्काल इष्यते ॥ 12 अथ पातञ्जलाः कालं महान्तं नोपयन्ति ते । क्षणैरेव मुहूर्तादिव्यवहारं प्रचक्षते ॥

00 मानमेयरहस्यश्लोकवार्तिके कालेन यावता पूर्वं देशं जह्याच्चलन् अणुः । संपद्येतोत्तरं देशं स कालः क्षण उच्यते ॥ क्षणः कालकला पूर्वापरभागविवर्जिता । स एव वस्तुतः कालः क्रमस्याप्यवलम्बनम् ॥ मुहूर्ताहोरात्ररूपः बुद्धिनिर्माणलक्षणः । वस्तुशून्यो लौकिकानां वस्त्वात्मेवावभासते ॥ क्षणतत्क्रमयोर्नास्ति समाहारो न वस्तुतः । तस्माद्बुद्धिसमाहारः मुहूर्तादिरिति स्थितम् ॥ अनेन चैव न्यायेन संख्यां द्वित्वादिलक्षणाम् । एकत्वेनान्यथासिद्धां कुर्वन्ति सुधियोऽपरे ॥ आर्हतानामेवमेव कालोऽणूनां समुच्चयः । तेनैव भूतभाव्यादिव्यवहारो निरूपितः ॥ तथा महाकालमेके खण्डमेकेऽथचोभयम् । इति त्रिधा कालसत्त्वे सिद्धान्ता इति निर्णयः ॥ (23) आकाशवादः. 1 चत्वार्य्येव हि भूतानि नाकाशमतिरिच्यते । व्योमादिशब्दाः व्यामोहमात्रनिष्ठा इतीरिताः ॥ शून्यधातौ खपुष्पादौ निस्तत्त्वेऽप्यस्ति वाचकः योऽयमावरणाभावो निस्स्वभावश्च संमतः ॥

आकाशवादः 101 अवकाशोऽयमाकाश इति चार्वाकसौगताः । नतुपश्लेषविरहादसद्रूपतिरस्कृतिः ॥ अपोहजातिवादे च यथा वस्तुतयैव धीः । वासनावशतस्तद्वत् परीक्षायां तु शून्यता ॥ तलत्वं मलिनत्वं च विपुलत्वं तथाऽल्पता । बालातपादिसंनिध्येनारुण्याद्यपि दृश्यते ॥ केशोण्ड्रूविभ्रमनिभाः निरधिष्ठानविभ्रमाः । दुःखाभावे सुखाध्यासः स्यात्सर्वजनसाक्षिकः ॥ तेजोऽभावे च नीलादिरध्यस्तो न्यायविन्मतः । अतीतेषु च वर्णेषु क्रमस्संख्या च दृश्यते ॥ अतीतानागतादौ च प्राकट्यं वित्तिवेद्यता । स्मृतेः प्रमोषो नीलादिवस्तूनामिति केचन ॥ २ समवायितया शब्दस्याकाशः परिशेषतः । अनुमानात्सिध्यतीति प्राहुर्वैशेषिकादयः ॥ स च नित्यो विभुश्चैक इति लाघवयुक्तितः । उपाधिभेदात्कार्याणामुपष्टम्भक इष्यते ॥ नेश्वरादतिरिच्यन्ते दिक्कालगगनानि तु । इति लाघवविज्ञानाः प्राहुर्ये नव्यतार्किकाः ॥ ३ उद्भूतरूपमाकाशं विदुस्सांशं च चाक्षुषम् । सांख्याः प्राथमिकं भूतं अवकाशप्रदं विदुः ॥