मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 137, कुल 672 में से
संदर्भ में पढ़ेंकालवादः अतीतागामिधीरेव वर्तमानमतिर्यदि । भूतभाविसमस्ताप्त्या न शोकादिसमुद्भवः ॥ पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि । त्रिकालस्थेऽपि तत्सिद्धेः क्वातीतागामिता भवेत् ॥ प्रारब्धश्चासमाप्तश्च वर्तमानो य उच्यते । व्यापारसमुदायोऽसौ विवक्षितफलावधिः ॥ तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः । वैवक्षिकमिहान्यच्च वर्तमानत्वमक्षतम् ॥ सत्त्वं यद्वर्तमानत्वं कालसंबन्धलक्षणम् । तस्य स्वपरनिर्वाहान्नानवस्था प्रसज्यते ॥ मानसंबन्धरूपं तु सत्त्वं सर्वगतं मतम् । सत्त्वमित्थमविद्वांसः कालोऽसन्निति बभ्रमुः ॥ विशेषलिङ्गाभावेन तल्लिङ्गस्याविशेषतः । एकस्तथा विभुश्चापि सर्वत्र व्यवहारातः ॥ आश्रयानुपलम्भेन निरंशो नित्य एव च । द्रव्यं चेति स्वीकृतोऽसाविति वैशेषिकाशयः ॥ 5 शैवादिभिः पुनः कालो ह्यनित्योऽव्यापकोऽपि च हेतुः परिमितं कार्यं प्रतीत्यभ्युपगम्यते ॥ नित्यता सर्वदा सत्ता नहि कालस्य संभवेत् । यतः कालान्तरं नास्ति किंतु ध्वंसविहीनता ॥