मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 140, कुल 672 में से
संदर्भ में पढ़ेंअत एवच मासादेः स्याद्विवक्षानुसारतः । आद्यन्तमध्यमोत्पत्तिकषणप्रभृतिकल्पना ॥ क्षणादिभेदाभावे तु कथं वा स्यादुपाधिभिः । भेदस्तेषां कालमात्रे संबन्धान्निर्विशेषणे ॥ विकारपक्षे कृत्स्नैकदेशयोगविकल्पना । परिहार्या ह्याश्रयैकदेशवृत्तिगुणादिवत् ॥ उपाधिसंबन्धमात्रपक्षेऽपि न विशिष्यते । परिहारोऽयमिति च प्राहुर्लाघवदृष्टयः ॥ स्पन्दसंततिसिद्धयर्थं कालस्याणुत्वकल्पनम् । आशावसनसिद्धान्ते युक्तिचातुर्यजृम्भितम् ॥ क्रियासंततिवत्काले परिणामपरंपरा । किं न स्यात्स्वापकर्षाद्यैः परत्वादिप्रसाधिका ॥ 9 एकाश्रयक्रियासंख्या काल इत्यपरे विदुः । तदुपाधिविशेषाणामुपलक्षणतत्परम् ॥ अव्यक्तं परमाकाशः कालश्चेति त्रिधा स्थिता सैषा प्रकृतिरित्यन्ये ह्येकदेशविदो बुधाः ॥ 10 कालोपाधिविशेषाश्च मञ्जरीप्रकटीकृताः । संगृह्यन्ते सुमनसां स्वान्तविक्षेपशान्तये ॥ चञ्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः । कथ्यते कोकिलैरेव मधुः मधुरकूजितैः ॥