मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 141, कुल 672 में से
संदर्भ में पढ़ेंकालवादः 9 दिवाकरकरालातपातनिर्दग्धवीरुधः । मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥ शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः । प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ मौक्तिकाकारविस्तारितारानिकरचित्रितम् । शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥ आयामियामिनीभोगसफलाभोगविभ्रमाः । हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥ आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः । वदन्ति शिशिरं वाताः तुषारकणकर्कशाः ॥ तस्मादेकोऽप्ययं कालः क्रियाभेदाद्विभिद्यते । एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥ 11 कौमारिलाश्श्रावणत्वमाहुर्दिक्कालयोरपि । कालश्चैको विभुर्नित्यः प्रविभक्तोऽधिगम्यते ॥ वर्णवत् सर्वभावेषु व्यज्यते केनचित्क्वचित् । आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये ॥ कालस्य प्रविभागास्ते जायन्ते ध्वन्युपाधयः । तस्मात्सर्वेन्द्रियग्राह्यः सत्तावत्काल इष्यते ॥ 12 अथ पातञ्जलाः कालं महान्तं नोपयन्ति ते । क्षणैरेव मुहूर्तादिव्यवहारं प्रचक्षते ॥