मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 142, कुल 672 में से
संदर्भ में पढ़ें00 मानमेयरहस्यश्लोकवार्तिके कालेन यावता पूर्वं देशं जह्याच्चलन् अणुः । संपद्येतोत्तरं देशं स कालः क्षण उच्यते ॥ क्षणः कालकला पूर्वापरभागविवर्जिता । स एव वस्तुतः कालः क्रमस्याप्यवलम्बनम् ॥ मुहूर्ताहोरात्ररूपः बुद्धिनिर्माणलक्षणः । वस्तुशून्यो लौकिकानां वस्त्वात्मेवावभासते ॥ क्षणतत्क्रमयोर्नास्ति समाहारो न वस्तुतः । तस्माद्बुद्धिसमाहारः मुहूर्तादिरिति स्थितम् ॥ अनेन चैव न्यायेन संख्यां द्वित्वादिलक्षणाम् । एकत्वेनान्यथासिद्धां कुर्वन्ति सुधियोऽपरे ॥ आर्हतानामेवमेव कालोऽणूनां समुच्चयः । तेनैव भूतभाव्यादिव्यवहारो निरूपितः ॥ तथा महाकालमेके खण्डमेकेऽथचोभयम् । इति त्रिधा कालसत्त्वे सिद्धान्ता इति निर्णयः ॥ (23) आकाशवादः. 1 चत्वार्य्येव हि भूतानि नाकाशमतिरिच्यते । व्योमादिशब्दाः व्यामोहमात्रनिष्ठा इतीरिताः ॥ शून्यधातौ खपुष्पादौ निस्तत्त्वेऽप्यस्ति वाचकः योऽयमावरणाभावो निस्स्वभावश्च संमतः ॥