भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

कालवादः 9 दिवाकरकरालातपातनिर्दग्धवीरुधः । मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥ शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः । प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ मौक्तिकाकारविस्तारितारानिकरचित्रितम् । शरत्पिशुनतां याति यमुनाम्भोनिभं नभः ॥ आयामियामिनीभोगसफलाभोगविभ्रमाः । हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥ आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः । वदन्ति शिशिरं वाताः तुषारकणकर्कशाः ॥ तस्मादेकोऽप्ययं कालः क्रियाभेदाद्विभिद्यते । एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥ 11 कौमारिलाश्श्रावणत्वमाहुर्दिक्कालयोरपि । कालश्चैको विभुर्नित्यः प्रविभक्तोऽधिगम्यते ॥ वर्णवत् सर्वभावेषु व्यज्यते केनचित्क्वचित् । आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये ॥ कालस्य प्रविभागास्ते जायन्ते ध्वन्युपाधयः । तस्मात्सर्वेन्द्रियग्राह्यः सत्तावत्काल इष्यते ॥ 12 अथ पातञ्जलाः कालं महान्तं नोपयन्ति ते । क्षणैरेव मुहूर्तादिव्यवहारं प्रचक्षते ॥

00 मानमेयरहस्यश्लोकवार्तिके कालेन यावता पूर्वं देशं जह्याच्चलन् अणुः । संपद्येतोत्तरं देशं स कालः क्षण उच्यते ॥ क्षणः कालकला पूर्वापरभागविवर्जिता । स एव वस्तुतः कालः क्रमस्याप्यवलम्बनम् ॥ मुहूर्ताहोरात्ररूपः बुद्धिनिर्माणलक्षणः । वस्तुशून्यो लौकिकानां वस्त्वात्मेवावभासते ॥ क्षणतत्क्रमयोर्नास्ति समाहारो न वस्तुतः । तस्माद्बुद्धिसमाहारः मुहूर्तादिरिति स्थितम् ॥ अनेन चैव न्यायेन संख्यां द्वित्वादिलक्षणाम् । एकत्वेनान्यथासिद्धां कुर्वन्ति सुधियोऽपरे ॥ आर्हतानामेवमेव कालोऽणूनां समुच्चयः । तेनैव भूतभाव्यादिव्यवहारो निरूपितः ॥ तथा महाकालमेके खण्डमेकेऽथचोभयम् । इति त्रिधा कालसत्त्वे सिद्धान्ता इति निर्णयः ॥ (23) आकाशवादः. 1 चत्वार्य्येव हि भूतानि नाकाशमतिरिच्यते । व्योमादिशब्दाः व्यामोहमात्रनिष्ठा इतीरिताः ॥ शून्यधातौ खपुष्पादौ निस्तत्त्वेऽप्यस्ति वाचकः योऽयमावरणाभावो निस्स्वभावश्च संमतः ॥

आकाशवादः 101 अवकाशोऽयमाकाश इति चार्वाकसौगताः । नतुपश्लेषविरहादसद्रूपतिरस्कृतिः ॥ अपोहजातिवादे च यथा वस्तुतयैव धीः । वासनावशतस्तद्वत् परीक्षायां तु शून्यता ॥ तलत्वं मलिनत्वं च विपुलत्वं तथाऽल्पता । बालातपादिसंनिध्येनारुण्याद्यपि दृश्यते ॥ केशोण्ड्रूविभ्रमनिभाः निरधिष्ठानविभ्रमाः । दुःखाभावे सुखाध्यासः स्यात्सर्वजनसाक्षिकः ॥ तेजोऽभावे च नीलादिरध्यस्तो न्यायविन्मतः । अतीतेषु च वर्णेषु क्रमस्संख्या च दृश्यते ॥ अतीतानागतादौ च प्राकट्यं वित्तिवेद्यता । स्मृतेः प्रमोषो नीलादिवस्तूनामिति केचन ॥ २ समवायितया शब्दस्याकाशः परिशेषतः । अनुमानात्सिध्यतीति प्राहुर्वैशेषिकादयः ॥ स च नित्यो विभुश्चैक इति लाघवयुक्तितः । उपाधिभेदात्कार्याणामुपष्टम्भक इष्यते ॥ नेश्वरादतिरिच्यन्ते दिक्कालगगनानि तु । इति लाघवविज्ञानाः प्राहुर्ये नव्यतार्किकाः ॥ ३ उद्भूतरूपमाकाशं विदुस्सांशं च चाक्षुषम् । सांख्याः प्राथमिकं भूतं अवकाशप्रदं विदुः ॥

102 मानमेयरहस्यश्लोकवार्तिके भेरीशब्दः पुष्पगन्धः इति व्यवहृतिस्समा । पञ्चभूताश्रितश्शब्द इति तैरभ्युपेयते ॥ 4 अजस्रमूर्तिर्यश्शब्दः सूक्ष्मत्वान्नोपलभ्यते । व्यजनाद्वायुरिव यः स्वनििमित्तात्प्रतीयते ॥ स एव कैश्चित्कुशलैराकाश इति पठ्यते । इत्याहुरपरे प्राज्ञा इति वाक्यपदीवचः ॥ 5 चन्द्रिकादिविशेषानुन्मेषेण विततं तु यत् । विरलावस्थितं द्रव्यं नभस्तदिति केचन ॥ 6 परस्परानवष्टब्धप्रदेशस्थस्वरूपयोः । परमाण्वोश्च संयोगो विना देशं न सिध्यति ॥ दिक्त्वेऽत्रान्तरिक्षान्तर्भावं केचिद्विदुस्ततः । अतिरिक्तत्वपक्षे तु सोऽण्वोर्देशो भवेदपि ॥ 7 प्रत्यक्षसिद्ध आकाश इति वेदविदो विदुः । विधिरूपतया सर्वलोकसाक्षिकतादिना ॥ भावान्तराभाववादे विवादो नैव विद्यते । अतिरिक्ताभाववादे युक्तिरेषा निरूपिता ॥ न तावदत्रागमिकी प्रतीतिर्नाभसी भवेत् । आगमस्यानभिज्ञानामपि तद्बुद्धिदर्शनात् ॥ नाप्यानुमानिकी सा स्यात् तत्रानधिकृतास्तु ये अबलाबालगोपानां तेषामप्यस्ति तन्मतिः ॥

आकाशवादः 103 प्रतीयतेऽयमाकाशः यदैवोन्मीलनं दृशः । प्रतीत्यभावे गन्तॄणां कूपादिपतनं ध्रुवम् ॥ इह पक्षी नेह पक्षीत्येवं जानन्ति लौकिकाः । एतदालम्बनतया वस्तु किंचित्प्रसिध्यति ॥ कल्पितालम्बनं केचिदालोकालम्बनं परे । ध्वान्तालम्बनमेकेऽन्ये तन्निरालम्बनं विदुः ॥ तत्रापि कल्पितादीनां स्यादेवाधारकल्पना । विधिर्निषेधो निराधिकरणो नेति केचन ॥ तथात्वे चाद्वैतवादः शून्यवादोऽपि वा ध्रुवः । तस्मादध्यक्षसंयोगः परिशेषाद्व्यवस्थितः ॥ तस्मादङ्गुलिनिर्देशपूर्वं व्यवहरत्यसौ । परीक्षको लौकिकश्च निर्बाधं सप्रमाणकम् ॥ नाभावो निस्स्वभावस्स्यात् स्वस्वभावतया स्थितेः स्वविरुद्धस्वभावाच्चेत् निःस्वभावोऽखिलो भवेत् ॥ यदि चावरणाभावोऽत्रात्यन्ताभावलक्षणः । तदाधारतया कश्चिदस्त्येव मतिगोचरः ॥ प्रध्वंसप्रागभावौ तु सत्सु तेषु न सिद्ध्यतः । तथाऽऽवरणभेदस्तु तस्य सत्त्वेऽपि सिद्ध्यति ॥ 8 अव्याकृतो व्याकृतश्च स चाकाशो द्विधा मतः ।

04 मानमेयरहस्यश्लोकवार्तिके कैश्चित्तु तद्विष्णुपदं परमं पदमिष्यते । पञ्चभूतान्तर्गतो यः स द्वितीयोऽभिधीयते ॥ 9 स्याद्वादिभिरथाकाशः लोकालोकविभेदतः । विभक्तः प्रथमः लोकाकाशो लोकेषु विद्यते ॥ सर्वलोकोपरिस्थो यः सोऽलोकाकाश उच्यते । स चानन्तः तत्र मुक्तास्सन्तीति सुधियो विदुः ॥ इत्थं विकल्पो वियतस्संक्षेपादिह सूचितः । सर्वार्थसिद्धौ सन्न्यायमञ्जर्यामस्य विस्तरः ॥ (24) परमाणुवादः. 1 अनित्यं सकलं वस्तु क्षणत्वाच्छून्यमित्यपि । दुःखं चेति हि सिद्धान्तः सौगतानां व्यवस्थितः । कार्यकारणयोरैक्यं तथैक्यं धर्मधर्मिणोः । अतो नित्यैकान्तवादः सांख्यानामिति निर्णयः । वैशेषिकादयस्तत्र नित्यानित्यत्ववादिनः । क्षितिवार्यग्निमरुतां नित्यास्स्युः परमाणवः ॥ व्योमकालदिगात्मानः नित्या एवं मनांस्यपि । अन्यानि कार्यद्रव्याण्यान्यनित्यानीति निर्णयः ॥ नित्यानित्यविभागः प्राक्स्थितो वेदान्तिनां मते परमाणुस्वरूपे तु विचारोऽयं विमृश्यताम् ॥

परमाणुवादः 105 2 स्पर्शाद्येकद्वित्रिचतुस्स्वभावाणुचतुष्कतः । पुञ्जः प्रपञ्चः संयोगोऽनुपपत्तिपराहतः ॥ इति वैभाषिकैः कैश्चित्सौगतैरभिधीयते । 3 तत्रातिरिक्तावयविवादिभिः किल तार्किकैः ॥ प्रथमं संघटेते द्वौ परमाणू ततस्त्रिभिः । आरभ्यते च त्र्यणुकं द्व्यणुकैरिति कथ्यते ॥ परस्परानवष्टब्धदेशस्थितिरुपेयते । अण्वोर्द्व्यणुकयोर्वापि स देशो व्योमसंज्ञितः ॥ प्रभामण्डलमेवैतदिति केचन जानते । तस्याप्याश्रयदेशोऽन्यो वक्तव्य इति साम्प्रतम् ॥ बहुत्वसंख्यया दृष्टं महत्त्वं हेतुनिष्ठया । परोक्षत्वापरोक्षत्वसिद्धिस्तद्धेतुसाध्ययोः ॥ 4 परमाणुरणुह्रस्वं द्व्यणुकं दीर्घमुच्यते । त्र्यणुकं तु महत्तस्मात्परिमाणचतुष्टयम् ॥ महत्त्वं षट्पार्श्ववत्त्वं त्रिभिर्दीर्घैस्तदुद्भवः । तस्मादुत्पद्यते सर्वं त्र्यणुकं द्व्यणुकैस्त्रिभिः ॥ ततश्च क्रमसामान्ये मानं खण्डनिदर्शनम् । मानं सङ्ख्याविशेषे तु नास्तीत्यारम्भ इष्यते ॥ 5 अत्रेतरेषामाक्षेपसारांशोऽयं प्रदर्श्यते । स्वांशैस्संयुज्यावयवाः प्रारभन्तेऽतिरेकिणम् ॥ M.R. 14

106 मानमेयरहस्यश्लोकवार्तिके

इति वादो निर्विघातः द्व्यणुकावधि संभवेत् । ततोऽणवो निरंशाश्चेत् संयोगस्तत्र दुर्घटः ॥ सांशाश्चेदविशेषस्स्यान्मेरुसर्षपयोरिति । षट्केन युगपद्योगात्परमाणोष्षडंशता ॥ षण्णां समानदेशत्वे पिण्डस्स्यादणुमात्रकः । इति पद्यं विश्रुतं हि यन्माध्यमिकशासनम् ॥ निरंशाऽनेकविषया बुद्धिर्नात्र निदर्शनम् । अंशानपेक्षस्संयोगस्तव नारम्भकः क्वचित् ॥ मूर्तैर्विभूनां संयोगोऽप्यत्र न स्यान्निदर्शनम् । अनिच्छतां विभुद्रव्यं, इच्छतामयमाशयः ॥ प्रवर्त्स्यामो यदि वयं संयोगगुणनिह्नवे । तदा प्रदर्श्येत विभुप्रतिबन्ध्यणुषु त्वया ॥ किंत्वारम्भकसंयोगः प्रदेशनियतो मतः । अन्यत्राङ्गीकृतश्चेति कल्प्येऽप्येष प्रसज्यते ॥ उपलम्भानुसारेण वस्तुसत्ता व्यवस्थिता । तस्मात्त्र्यणुकविश्रान्तिर्वरमित्याह वैदिकः ॥ 6 अतश्च तार्किका नव्या नित्ये महति चाक्षुषे । त्रुटौ विश्रममिच्छन्ति न ह्रस्वपरिमण्डले ॥ परमाणुत्रयेणैव त्र्यणुकारम्भ इष्यते । गवाक्षरन्ध्रदृष्टं वा लाघवात् त्र्यणुकं विदुः ॥

परमाणुवादः 107 जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुरिति स्मृतिः ॥ त्रसरेणुपदं मण्डपादिवद्रूढमिष्यते । त्रिभिश्च सहितो रेणुस्त्रसरेणुरितीपरे ॥ 7 अनन्तावयवत्वं चाप्यणोरिच्छन्ति केचन । विभज्यमाने नाभावपरिशेषः प्रसज्यते ॥ मेरुसर्षपवैधर्म्यं देशव्याप्त्या न संख्यया । व्यक्त्यानन्त्येऽपि जात्योस्तां परताऽपरते यथा ॥ अण्वंशानामनन्तत्वे गन्तॄणां तदतिक्रमः । कदाऽपि न स्यात्, किं न स्याद्वेगातिशयवैभवात्॥ द्युमणेरातपस्सर्पन्नुदयाद्रिशिखामणेः । तत्क्षणं किं न निर्भाति पश्चिमाद्रिशिखण्डकः ॥ नन्वनन्तावयवता मूर्त्तैरवयवैर्मिथः । अन्तरं त्वप्रयच्छद्भिः सर्वदिग्व्याप्तिकारिणी ॥ एकेन सर्षपेणैव पूर्येत सकलं जगत् । अतोऽनवयवाः केचित्स्वीकर्त्तव्याः किलेति चेत् ॥ अनन्तावयवत्वे तु सर्वदिग्व्याप्तिरित्यसत् । तावद्देशोऽपि सौक्ष्म्येणानन्तावयवसंभवात् ॥ सर्वापकृष्टः संघातस्सत्त्वादेरणुरित्यपि । सांख्यैरुक्तं निरंशाऽपि प्रकृतिश्चेति भाषितम् ॥

08 मानमेयरहस्यश्लोकवार्तिके निरंशा प्रकृतिस्सैव परिणामविभागिनी । अनन्तांशात्मिका चेति विरुद्धं सांख्यदर्शनम् ॥ 8 शास्त्रैकविषयत्वे च परमाणोर्न सिद्ध्यति । नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः ॥ निर्धर्मका निराधारा प्रकृतिर्यद्यदिष्यते । निर्धर्मका निराधारा अणवः बौद्धसम्मताः ॥ आगमालम्बने कार्यं कारणे प्रतितिष्ठति । अन्ततः प्रकृतिस्साऽपि परे ब्रह्मणि तिष्ठति ॥ तदपि स्वे महिम्नीति यदि वा नेति चेत्यपि । श्रूयतेऽतो निराधारं सर्वाधारं परं पदम् ॥ वाचक्रवीयाज्ञवल्क्यसंवादोऽप्ययमेव हि । बृहदारण्यकेऽधीतः विचारोऽसौ महान् ततः ॥ 9 जगत्कारणमेवेदं सर्वैर्जिज्ञास्यते ततः । सधर्मकांश्च साधारणान् पीलून् वैशेषिका विदुः ॥ तेभ्योऽपिच परां सूक्ष्मां प्रकृतिं कापिला विदुः । ततोऽपि परमं सूक्ष्मं ब्रह्मोपनिषदा विदुः ॥ 10 सृष्टिप्रलयसंतानं शाबरा न प्रपेदिरे । न कदाचिज्जगच्चैतदनीदृगिति तन्मतम् ॥ केचित्पौराणिकाः कल्पमेकमेव विदुः ततः । तेषामेका सृष्टिरिष्टा प्रलयोऽप्येक एव हि ॥

शरीरवादः 10 एत एव तु कल्पान्तजीववादिन ईरिताः । परे सर्वे सृष्टिभङ्गप्रवाहानादिवादिनः ॥ तस्मात्कारणवाक्यानि सर्वासूपनिषत्स्वपि । लयपूर्वां सृष्टिमाहुः सृष्टिपूर्वो लयो यतः ॥ तत्र वैशेषिकाः सर्वजीवानां मुक्तिवादिनः । ते वै मताः सृष्टिभङ्गप्रवाहस्यान्तवादिनः ॥ ये पुनर्नित्यसंसारवादिवेदान्तिनो बुधाः । तेषां सृष्टिप्रवाहोऽयमनन्तोऽनादिरप्यसौ ॥ नित्यसंसार्यभावेऽपि जीवानन्त्यवचोबलात् । लीलाभूतिर्भगवतोऽनन्तेति सुधियो विदुः । (25) शरीरवादः 1 शरीरस्य स्वरूपं हि विज्ञेयं सर्ववादिभिः । तद्धेयं क्षणिकं चात्मभ्रमकारणमुच्यते ॥ अनुकूलो हि सर्वेषामात्मा, तादात्म्यविभ्रमात् । आनुकूल्यधिया प्रीतिर्देहे यादृशि तादृशि ॥ चेष्टेन्द्रियार्थाश्रयत्वं शरीरत्वं निरुच्यते । इष्टप्राप्त्याद्यनुगुणा क्रिया चेष्टेति कथ्यते ॥ आधेयत्वं विधेयत्वं शेषत्वं नियतं तु यत् । शरीरशब्दप्रवृत्तिनिमित्तमिति कैश्चन ॥

10 मानमेयरहस्यश्लोकवार्तिके वायवीयं तैजसं च जलीयं पार्थिवं तथा । चतुर्विधं शरीरं स्यात् कारणं च चतुर्विधम् ॥ भवेदुपष्टम्भकं तु प्रत्येकमितरत्त्रयम् । आरम्भकं सजातीयमन्यथा जातिसंकरः ॥ तच्छरीरं द्विधं ज्ञेयं मानसं यौनमित्यपि । देवर्ष्याद्या मानसास्स्युः योनिजास्त्वितरे मताः ॥ वाय्वादिषु हि लोकेषु तेते देहा व्यवस्थिताः । इति तार्किकसिद्धान्तः तत्र मीमांसका विदुः ॥ 2 पार्थिवा एव देहाः स्युः ते सर्वे योनिजा मताः । देवाश्च देवलोकाश्च न प्रमाणपदे स्थिताः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । तृप्तिः फलप्रदानं च देवतानां न विद्यते ॥ ततश्चैतन्यरहितदेवतावादिनस्त्विमे । इन्द्रादिशब्दरूपास्ताः ते शब्दाः स्वाभिधायिनः ॥ सर्वं शब्दात्मकमिति हर्यादिषु वदत्स्विह । शब्दात्मदैवतविदां कोऽपराधोऽतिरिच्यते ॥ 3 अत्रेदमवधातव्यं कुमारिलमुखोद्गतम् । ग्रहैकत्वाधिकरणतन्त्रवार्तिकसंगतम् ॥ ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः । तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः ॥

शरीरवादः 111 महाभौतिकदेहस्थाः यथाऽऽत्मानस्सचेतनाः । किंचिदर्थं विवक्षन्ति न विवक्षन्ति चापरम् ॥ तेषामन्तर्गताऽपीच्छा तद्वाक्यार्थविचारिभिः । ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिःस्थिता ॥ देहभेदप्रकाराश्च कर्मशक्तिवशानुगाः । प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम् ॥ पार्थिवावयवप्रायाः शेषतोयाद्यनुग्रहात् । जरायुजादयो देहाः दृष्टा भुवि चतुर्विधाः ॥ भूतान्तरानुबद्धेन तोयेनैव विनिर्मिताः । श्रूयन्ते वारुणे लोके देहाः स्वच्छाङ्गलक्षणाः ॥ अन्तरिक्षे च बहवः प्राणिनो वातनिर्मितैः । भ्रमन्ति लघुभिस्सूक्ष्मैः देहैर्भूम्याद्यनुग्रहात् ॥ स्वर्लोके तैजसप्रायाः देहाः शुद्धप्रभान्विताः । आप्यायन्ते विकीर्णेन भानवीयेन तेजसा ॥ ये हि स्वर्गं यन्ति लोकं जनाः पुण्यकृतस्त्विह । ज्योतींषि तेषामेतानि नक्षत्राणीति वै श्रुतिः ॥ तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः । इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥ रूपस्पर्शादयो येऽपि महाभूतगुणाः स्थिताः । प्रत्येकमात्मनां तेपि देहास्सम्भोगहेतवः ॥

  1. शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते तदप्यधिष्ठितं सर्वं एकेन परमात्मना ॥ तथर्ग्वेदादयो देहाः प्रोक्ता येऽपि पृथक्पृथक् भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगतास्स तेषां चान्तर्गतेच्छानां वाक्यार्थप्रतिपादने विवक्षा वाऽविवक्षा वा ज्ञायते शब्दशक्ति विधिशक्त्या गृहीतं यत्तत्सर्वं हि विवक्षित तयैव तु परित्यक्तं व्याख्येयमविवक्षितम् शब्दब्रह्मात्मनोऽप्येवं सर्ववेदानुसारिणः । विवक्षा वाऽविवक्षा वा वक्तव्या विधिशा अनादिनिधनेऽप्येवं वेदे वेदार्थगोचरे । व्याख्यानं मुख्यवृत्त्याऽपि स्याद्विवक्षाऽवि 5 अथ कापिलसिद्धान्ते शरीरपरिकल्पना विस्तरेणोदिता तत्र सारांशोऽयं निरूप्यते विशेषाः स्थूलनामानः पञ्च स्युः भूतलक्ष तन्मात्रलक्षणाः पञ्चाविशेषास्सूक्ष्मलक्षण विशेषाः त्रिविधाः ज्ञेयाः सूक्ष्मदेहोऽत्रच स्थूलदेहो द्वितीयः स्यात् प्रभूतस्तदनन्तर आ सर्गात्प्रतिसर्गान्तं याः पुंसां सन्ति बुद्धयहंकारतन्मात्रेन्द्रियसंहतिलक्षणाः ॥

शरीरवादः 113

ते सूक्ष्मदेहाः नियताः लिङ्गाख्याः प्रथमा इमे । षाट्कौशिकाः स्थूलदेहाः ये मातापितृसंभवाः ॥ निवर्तन्ते प्रजायन्ते प्रभूताः स्थावरा मताः । घटादीनां निवेशोऽत्रेत्येवं त्रैविध्यमीरितम् ॥ इति सांख्योक्तसिद्धान्तं प्राय इच्छन्ति सूरयः । नैयायिकादयो नोपयन्तीदं तत्त्वविप्लवात् ॥ विभ्वात्मवादे गत्युक्तिस्सर्वत्रैवौपचारिकी । जन्मान्तरोपपत्तिश्च स्थितस्यैव भविष्यति ॥ कुमारिलश्चात्मवादे मीमांसाश्लोकवार्तिके । अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥ तदस्तित्वे प्रमाणं हि न किञ्चिदिति पद्यतः । विन्ध्यवासिमतं प्राह सांख्यस्स्याद्विन्ध्यवास्यसौ ॥ 6 तथौपनिषदैः कैश्चिल्लिङ्गदेहो मतो यथा । पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् ॥ अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् । परं चाप्यपरं चेति द्विधा तत्परिकीर्तितम् ॥ परं हिरण्यगर्भीयं तन्महत्तत्त्वशब्दितम् । अपरं त्वस्मदादीनां सोऽहंकार इतीर्यते ॥ पञ्चीकृतेभ्यो भूतेभ्यश्चान्येषां सृष्टिरिष्यते । लिङ्गं मतं भेदविदां भेदाभेदविदामपि ॥

M.R. 15

114 मानमेयरहस्यश्लोकवार्तिके 7 प्राग्देहाकृष्टभूतांशसंघसंपत्तिमान् पुमान् । अणुस्संसरतीत्येकैर्लिङ्गदेहो न चेष्यते ॥ भूतसूक्ष्मपरिष्वङ्गविषयं शास्त्रमुच्यते । गतिसाधनमेवेदं न चेष्टं भोगसाधनम् ॥ आरम्भवादे सांकर्यं जात्यादेः स्थूल इष्यते । उपाधिसंकरन्यायादिति केचन जानते ॥ कुर्वद्रूपत्वाख्यजातिवादभङ्गाय संकरः । दोषोऽभ्युपगतः प्राज्ञैरिति तत्त्वविदो विदुः ॥ 8 अवस्थावाइपक्षे तु नैव तस्य प्रसञ्जनम् । इत्याभिप्रेत्य बहुभिः शरीरं पाञ्चभौतिकम् ॥ क्षणिकं हेयमित्यादि बहुधा विजुगुप्स्यते । संरम्भस्तु तदत्यन्तभिन्ननित्यात्मधीफलः ॥ तत्सिद्धिश्च विरागस्य हेतुस्स्यादिति तन्मतम् । क्षणात्मवादे देहात्मवादे तत्सूपपादितम् ॥ द्रष्टृणामिह सर्वेषामास्थाया हि परिक्षयः । परमोद्देश्य इति च सर्वथा सुव्यवस्थितम् ॥ (26) इन्द्रियवादः 1 शरीरस्यैवेन्द्रियत्वात् नेन्द्रियं नाम किंचन । इति शाक्यविशेषा हि प्राहुर्लोकायता अपि ॥

इन्द्रियवादः 115 त्वगेकमेव वा तत्स्यात् मनो वाऽप्येकमेव वा । इति कश्चित्सौगतानां सिद्धान्त इति गम्यते ॥ कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत् । इत्ययुक्तं, वरं धर्मिकल्पनाद्धर्मकल्पना ॥ शक्तिशक्तिमतो रैक्यं प्रायशस्सर्वसम्मतम् । शक्तीनां नामभेदेन व्यवहारोऽनवस्थितः ॥ पुमिन्द्रियं स्त्रीन्द्रियं च द्विधा वेन्द्रियमित्यापि । प्राचीनानां व्यवहृतिः पूर्वाचार्यैरनूदिता ॥ क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु । न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥ नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत् ॥ न सुखा दिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् । अनिषेधादुपात्तं चेदन्येन्द्रियमतं वृथा ॥ नैकमित्यादिपद्यस्याप्यर्थ एषोऽवधार्यताम् । दर्शनस्पर्शनाभ्यां यद्ग्राह्यं ग्राहकभेदतः ॥ रूपादिवत्ताद्भिद्येत नोचेद्रूपाद्यभेदिता । सामान्यं पञ्चभिर्ग्राह्यं दृष्टं चेत्तदसन्मतम् ॥ तथापीन्द्रियसांकर्ये व्यर्था तद्भेदकल्पना । त्वगेकमेवेन्द्रियं स्यात् नैकार्थे नैकशक्तिमत् ॥

[Page 116] मानमेयरहस्यश्लोकवार्तिके

इत्येवं भिक्षुवाक्यस्य भावो रत्नाकरोदितः एकेन्द्रियादिवादस्तु गौतमेनाप्यनूदितः ॥ तद्भेदसाधनं तत्रानात्मसाधनसंगतम् । 2 यः पञ्चेन्द्रियसिद्धान्तः तत्रापि श्रोत्रचक्षुषी अप्राप्यकारिणी स्यातामिति सौगतनिर्णयः आभिमुख्यं च संबन्धोऽयस्कान्तादिवदिष्टः अनवस्थाऽतिप्रसङ्गौ संबन्धस्य ग्रहेऽग्रहे । प्राप्तेश्च कल्पनाऽन्येषामेषां त्वनुपलब्धितः प्राप्त्यभावस्सिद्ध एव स्वभावात्नियमः स्फुटः सान्तरं ग्रहणं न स्यात्प्राप्तौ दूरादिदर्शनात् महीमहीधरादीनां महतां चाग्रहो भवेत् । कणभक्षोऽक्षपादश्च जैमिनिः कपिलस्तथा सर्वेन्द्रियाणामेते स्युः प्राप्यकारित्ववादिनः चक्षुश्श्रोत्रेतरेषां तु केचित्ताथागतास्तथा तत्रापि चक्षुर्भिन्नानां तेषां स्याद्वादिनस्तथा 3 अथ नैयायिकानां स्यादेष सिद्धान्तसंग्रहः भौतिकानीन्द्रियाणि स्युः पञ्च बाह्यानि दे न महान्ति न चाणूनि मध्यमानीति नि अणु नित्यं द्रव्यमपि मनोऽन्तःकरणं म तत्र पञ्चभिरप्यक्षैः बोधस्सत्तागुणत्वयोः

इन्द्रियवादः 117 द्रव्यमाने पुनर्द्वाभ्यां रूपादावेकशः स्थितिः । मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः । स मानसीनो जनानामात्माऽप्येतैर्गुणैस्सह । अतीन्द्रियाणीन्द्रियाणि सिद्ध्यन्ति ह्यनुमानतः ॥ प्रतिदेहं विभिन्नानि षडेतान्यखिलात्मनाम् । शरीरावयवा एव स्युः कर्मेन्द्रियशब्दिताः ॥ शब्देतरोद्भूतगुणविशेषानाश्रयश्च सन् । ज्ञानहेतुमनोयोगस्याश्रयो हीन्द्रियाभिधः ॥ सर्वाणि प्राप्यकारीणि कारकाणि यतो धियाम् । संसृष्टं कारकं लोके तत्फलायावकल्पते ॥ सन्निकर्षस्ततस्सिद्धः सत्तयैवोपकार्यसौ । नानवस्थातिप्रसंगौ स्वभावनियतं जगत् ॥ नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् । वस्तुस्वभाववैचित्र्यात् इत्येतत्सर्वसम्मतम् ॥ लौकिकोऽलौकिकश्चेति सन्निकर्षो द्विधेष्यते । प्रथमः षड्विधस्तत्र द्वितीयस्त्रिविधो मतः ॥ पृथ्वग्रं चाक्षुषं तेजोऽधिकग्रहणशक्तिमत् । शालिकाचार्यसिद्धान्ते चक्षुर्बाह्येन तेजसा ॥ महच्चक्षुर्जनयति गृह्यते तेन चाधिकम् । तथा शाखाचन्द्रमसोर्यौगपद्येन च ग्रहः ॥

118 मानमेयरहस्यश्लोकवार्तिके बाह्येन ज्योतिषा चक्षुःज्योतिस्संवलितं दूरस्थं विपुलं चापि गृह्णातीति विदुः परे 4 अथ सांख्यास्त्विन्द्रियाणि विभून्यैकादशो प्राहुराहंकारिकाणि वृत्त्या च व्याप्नुवन्त्य ज्ञानकर्मात्मकं चेदं मनोऽन्तःकरणं मतम् अहंकारश्च बुद्धिश्चाप्यन्तःकरणमिष्यते ॥ तथाच त्रिविधा तेषामन्तःकरणकल्पना आनुमानिकतैतेषां प्रधानादिवदेवहि ॥ सात्त्विकाहंकार एषामुपादानमिति स्थितिः अहंकारविशेषाः स्युरिन्द्रियाणीति केचन हैरण्यगर्भा इति हि प्राह सर्वार्थसिद्धिकृत् कर्मेन्द्रियं राजसं स्यादिति केचन तान्त्रि प्रतिदेहं जनिध्वंसौ स्यातामस्येति केचन 5 मीमांसकास्तु प्रायेण नैयायिकमते स्थि विजृम्भन्तेऽभीष्टसिद्धौ श्रोत्रे शब्दे च दिशश्श्रोत्रमिति श्रुत्या श्रोत्रं ते दैशिकं ध्वनिजन्यस्तु संस्कारः शब्दग्रहणकारणम् 6 न श्रोत्रमिन्द्रियमिति भर्तृमित्रादयो विदुः कुमारिलस्त्विमं पक्षं निरास्थत् श्लोकवार्ति विषयेन्द्रियदेशानां संस्कारमपि चेच्छति