मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 151, कुल 672 में से
संदर्भ में पढ़ेंशरीरवादः 10 एत एव तु कल्पान्तजीववादिन ईरिताः । परे सर्वे सृष्टिभङ्गप्रवाहानादिवादिनः ॥ तस्मात्कारणवाक्यानि सर्वासूपनिषत्स्वपि । लयपूर्वां सृष्टिमाहुः सृष्टिपूर्वो लयो यतः ॥ तत्र वैशेषिकाः सर्वजीवानां मुक्तिवादिनः । ते वै मताः सृष्टिभङ्गप्रवाहस्यान्तवादिनः ॥ ये पुनर्नित्यसंसारवादिवेदान्तिनो बुधाः । तेषां सृष्टिप्रवाहोऽयमनन्तोऽनादिरप्यसौ ॥ नित्यसंसार्यभावेऽपि जीवानन्त्यवचोबलात् । लीलाभूतिर्भगवतोऽनन्तेति सुधियो विदुः । (25) शरीरवादः 1 शरीरस्य स्वरूपं हि विज्ञेयं सर्ववादिभिः । तद्धेयं क्षणिकं चात्मभ्रमकारणमुच्यते ॥ अनुकूलो हि सर्वेषामात्मा, तादात्म्यविभ्रमात् । आनुकूल्यधिया प्रीतिर्देहे यादृशि तादृशि ॥ चेष्टेन्द्रियार्थाश्रयत्वं शरीरत्वं निरुच्यते । इष्टप्राप्त्याद्यनुगुणा क्रिया चेष्टेति कथ्यते ॥ आधेयत्वं विधेयत्वं शेषत्वं नियतं तु यत् । शरीरशब्दप्रवृत्तिनिमित्तमिति कैश्चन ॥