भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 152, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 152

10 मानमेयरहस्यश्लोकवार्तिके वायवीयं तैजसं च जलीयं पार्थिवं तथा । चतुर्विधं शरीरं स्यात् कारणं च चतुर्विधम् ॥ भवेदुपष्टम्भकं तु प्रत्येकमितरत्त्रयम् । आरम्भकं सजातीयमन्यथा जातिसंकरः ॥ तच्छरीरं द्विधं ज्ञेयं मानसं यौनमित्यपि । देवर्ष्याद्या मानसास्स्युः योनिजास्त्वितरे मताः ॥ वाय्वादिषु हि लोकेषु तेते देहा व्यवस्थिताः । इति तार्किकसिद्धान्तः तत्र मीमांसका विदुः ॥ 2 पार्थिवा एव देहाः स्युः ते सर्वे योनिजा मताः । देवाश्च देवलोकाश्च न प्रमाणपदे स्थिताः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । तृप्तिः फलप्रदानं च देवतानां न विद्यते ॥ ततश्चैतन्यरहितदेवतावादिनस्त्विमे । इन्द्रादिशब्दरूपास्ताः ते शब्दाः स्वाभिधायिनः ॥ सर्वं शब्दात्मकमिति हर्यादिषु वदत्स्विह । शब्दात्मदैवतविदां कोऽपराधोऽतिरिच्यते ॥ 3 अत्रेदमवधातव्यं कुमारिलमुखोद्गतम् । ग्रहैकत्वाधिकरणतन्त्रवार्तिकसंगतम् ॥ ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः । तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः ॥