मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 139, कुल 672 में से
संदर्भ में पढ़ेंतस्मात्सर्वेन्द्रियग्राह्य इति तत्त्वविदां मतम् । सर्वेन्द्रियज्ञानवादो यथा सत्तागुणत्वयोः ॥ कालांशस्यानुमेयत्वे पदार्थेऽपि प्रसज्यते । तदा सौत्रान्तिकादीनां कोऽपराधोऽतिरिच्यते ॥ कालानुमेयवादे तु पामराणामधोगतिः । कालानुमा चोक्तरीत्या सर्वदा न विपश्चिताम् ॥ क्रमेण युगपत् क्षिप्रं चिरात्कृतमितीदृशाः । प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥ अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा । रूपमेव तवारूपं कथं गृह्येत चक्षुषा ॥ कथं वा रूपवन्तोऽपि परोक्षाः परमाणवः । तस्मात्प्रतीतिरन्वेष्या किं निमित्तपरीक्षया ॥ नचानुद्घाटिताक्षस्य चिरादिप्रत्ययोदयः । तद्भावानुविधानेन कालस्स्यादेव चाक्षुषः ॥ एवं गुरु द्रव्यमिति प्रत्ययात्तदपीदृशम् । पूर्वापरप्रत्ययेन दिशोऽप्यध्यक्षतां विदुः ॥ 8 नित्योऽप्येकोऽप्यसौ कालः द्रव्यत्वाद्भिदुरो मतः अवस्थाभेदतः ते चोपाधिसंबन्धलक्षणाः ॥ स्वयं विक्रियतेऽजस्रं स क्षणाद्यात्मनेत्यपि । यद्यादवप्रकाशोक्तं तदप्यनुमतं बुधैः ॥