मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 125, कुल 672 में से
संदर्भ में पढ़ेंशब्दशक्तिवादः 83 स्वाभाविकी सा शब्दानां विज्ञातैवार्थकारिणी । यतश्शब्दार्थसंबन्धो बोध्यबोधकतैव सः ॥ धूमादीनां तु संबन्धान्तरात् गमकता मता । चेष्टावद्बोधकत्वं स्याद्यदि संकेतमूलकः ॥ संकेतकर्तृपुरुषाज्ञानं चात्रास्ति बाधकम् । इति शब्दार्थसंबन्धनित्यतावादिनो विदुः ॥ ते च मीमांसकाः पूर्वोत्तराः नव्याश्च शाब्दिकाः। यथात्र वैयाकरणभूषणोक्तं विमृश्यताम् ॥ इन्द्रियाणां स्वविषये ह्यनादिर्योग्यता यथा । अनादिरर्थैश्शब्दानां संबन्धो योग्यता तथा ॥ शाब्दधीजनकत्वावच्छेदकत्वेन वीक्षितः । स्वीकर्तव्यः पुनः शब्दः सङ्केतेनार्थबोधकः ॥ अर्थधीजनकत्वेन ज्ञातः शब्दस्स्वभावतः । बोधकस्स्यादिति मते लाघवं परिदृश्यते ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानां द्वे शक्ती अपि ते विदुः ॥ तस्मात्स्वभावसिद्धान्तो वरं समयकल्पनात् । अत्र नैयायिकमनोरथतत्त्वं विचिन्त्यताम् ॥ 4 नैयायिकाः पुनः प्राहुः शक्तिं सङ्केतलक्षणाम् । इच्छा हि किल सङ्केतः नित्योऽनित्योऽपिवाऽस्तु सः