मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 126, कुल 672 में से
संदर्भ में पढ़ें4 मानमेयरहस्यश्लोकवार्तिके बौद्धा वैशेषिकाश्चैव शब्दमानापलापिनः । कथंचिदनुमानान्तर्भावमेते प्रचक्षते ॥ स्वाभाविकस्तु संबन्धश्शक्तिर्यद्युपगम्यते । निरुपाधिकसंबन्धो व्याप्तिरेव स निश्चितः ॥ शब्दोऽनुमानमेव स्यादतस्सङ्केत इष्यते । अत्र वैदिकसिद्धान्तसमाधिरवगम्यताम् ॥ सङ्केतो वाऽतिरिक्तो वा योऽविनाभावरूपतः । ज्ञातश्चेदनुमैव स्यात् न स्यात् ज्ञातः स्वरूपतः ॥ तथात्वप्रतिसंधानाभावेऽप्यनुभवोदयात् । शब्दो मानान्तरं तस्मादन्यथा सर्वविप्लवः ॥ अत्र प्राभाकराः प्राहुश्शब्दस्स्याल्लौकिकोऽनुमा । वैदिकस्त्वतिरिक्तोऽस्त्वित्येषाऽर्धजरतीयता ॥ सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः । इति न्यायः स्वीकृतः स्यादिति तत्त्वविदो विदुः ॥ 5 शक्तेरस्याः पुनश्शक्यविकल्पोऽप्यवधार्यताम् । व्याडी च वैयाकरणः व्यक्तिशब्दार्थवाद्यसौ ॥ वाजप्यायननामा यः जातिशब्दार्थवायसौ । 6 शक्तिर्जात्याकृतिव्यक्तिष्विति नैयायिका विदुः ॥ जातिव्यक्त्योरेव शक्तिर्गुणकर्माभिधायिनाम् । न तयोराकृतिर्यस्मात्प्रतीकव्यूहलक्षणा ॥