मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 135, कुल 672 में से
संदर्भ में पढ़ेंकालवादः मुहूर्तयामाहोरात्रमासर्त्वयनवत्सरैः । लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥ यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः अतीतवर्तमानादिभेदव्यवहृतिः कुतः ॥ तादृक्स्वभावसहितः कालो यद्यतिरिच्यते । सिद्धस्यैवहि तादृक्स्वभावोपगमो वरम् ॥ २ अथानुमेयसिद्धान्तः संगृह्यात्र प्रदर्श्यते । परापरं चिरं क्षिप्रं युगपत्क्रमिकं त्विति ॥ व्यवहाराः पुनः सूर्यपरिस्पन्दनिबन्धनाः । मूतैस्साक्षान्न संसर्गः कर्मणामर्कवर्तिनाम् ॥ क्रियोपनायकः कश्चित्स्यादेवोभयसंयुतः । परत्वादौ हेतुरेतत्संयोगोऽसमवाय्यसौ ॥ नाकाशेनान्यथासिद्धिः अविशेषादिगादिभिः । दिक्कालाविश्वरान्नव्यैरतिरिक्तौ नचेष्यते ॥ स एवात्रोपनेता स्यादित्येतेषां हृदि स्थितम् । अप्रत्यक्षत्वमात्रेण नच कालस्य नास्तिता ॥ युक्ता पृथिव्यधोभागचन्द्रमःपरभागवत् । प्रत्यक्षत्वादुपाधीनां प्रत्यभिज्ञादिसंभवः ॥ उपाधयः स्वरूपेण कालाश्चेदनवस्थितिः । चिरेणास्तंगतो भानुः शीतांशुः शीघ्रमुद्गतः ॥