मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 134, कुल 672 में से
संदर्भ में पढ़ें92 मानमेयरहस्यश्लोकवार्तिके 7 भूच्छायादर्शनं लोके तमोदर्शनमुच्यते । इत्युक्तवानपि विधिविवेके किल मण्डनः ॥ एवंरूपः तमस्तत्त्वे विकल्पः परिदृश्यते । निरूप्यते यथा यच्च तत्तथा व्यवतिष्ठते ॥ (22) कालवादः. 1 सांख्यसौगतचार्वाकैः क्रियते कालनिह्नवः । वैशेषिकादयः कालं मन्यन्ते दुरपह्नवम् ॥ अनुमेयं विदुः प्रायः परे दार्शनिकाः पुनः । प्रत्यक्षगोचरं प्राहुः इत्थमेषोऽपलप्यते ॥ उपाधिभिर्वा बुद्धिस्थैः तादृग्भिर्वाऽथ बुद्धिभिः । व्योमादिभिर्वा विभुभिः कालं निह्नुवते बुधाः ॥ नतावद्गृह्यते कालः प्रत्यक्षेण घटादिवत् । चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः ॥ नचामुनैव लिङ्गेन कालस्य परिकल्पना । प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत् ॥ प्रतिभासातिरेकस्तु कथंचिदुपपत्स्यते । प्रचितां कांचिदाश्रित्य क्रियाक्षणपरंपराम् ॥ नचैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः । कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥