मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 130, कुल 672 में से
संदर्भ में पढ़ें88 मानमेयरहस्यश्लोकवार्तिकं एकस्य वस्तुनस्स्वावयवे कर्मणि वा गुणे । समवेतैश्च सामान्यैः योगो येन प्रकारतः ॥ तेनैवच प्रकारेण योगो वस्त्वन्तरस्य तत् । अतस्संबन्धिसामान्ययोगस्सादृश्यमुच्यते ॥ स च योगोऽनुवृत्त्याख्यः सप्रतिद्वन्द्विलक्षणः । सादृश्यमेव सारूप्यं सामान्यं चेति निर्णयः ॥ सदृशावयवत्वं तु यत्र पद्मदळाक्षिवत् । तत्स्वावयवसामान्यभूम्ना तेषां भविष्यति ॥ एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतः । एकैकद्वित्रिसामस्त्यभेदादेतस्य चित्रता ॥ न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया । भूयस्त्ववद्धि जात्यादि सदृशत्वेन दृश्यते ॥ क्वचिच्च भूयसामेतत् क्वचिदल्पीयसामपि । नैतावता विशेषेण वस्तुत्वं तस्य हीयते ॥ सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतः । अनन्ताश्रययोगाच्च न नाशोऽन्यत्र विद्यते ॥ तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते । सर्वस्य ह्याश्रयः कश्चित् अस्ति देशान्तरादिषु । सदृशावयवत्वं तु यत्र नाम प्रतीयते । तदप्यवयवानां स्यात् समानावयवान्तरैः ॥