मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 129, कुल 672 में से
संदर्भ में पढ़ेंसादृश्यवादः 8 अन्ये दार्शनिकास्तत्र यंकंचिन्मार्गमाश्रिताः । एतावताऽस्तूपरमः बुधा विस्तरभीरवः ॥ (20) सादृश्य वादः. 1 सादृश्यनामकः कश्चित्पदार्थस्सर्ववस्तुगः । नानाप्रकारः प्रत्यक्ष इति प्राभाकरा विदुः ॥ तदेव चोपमानस्य प्रमेयमिति कीर्त्यते । दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् ॥ असन्निकृष्टसादृश्यज्ञानं ह्युपमितिर्मता । गवयस्थितसादृश्यदर्शनं करणं मतम् ॥ फलं गोगतसादृश्यज्ञानमित्यभिधीयते । वेदार्थनिर्णये तस्य चोपयोगोऽवधार्यताम् ॥ सौर्यवाक्ये तु संदृष्टे चौषधिद्रव्यकत्वतः । एकदैवत्यत्वतश्च ह्याग्नेयमुपतिष्ठते ॥ तस्मिंश्चोपमिते तेन तदर्थोऽपि प्रमीयते । सौर्येणाग्नेयवद्ब्रह्मवर्चसं भावयेदिति ॥ एवं शास्त्रोपयोगित्वात् प्रमेयत्वात्पृथक्त्वतः । सादृश्यं नाम सिद्धोऽस्ति पदार्थः सार्वलौकिकः। 2 कुमारिलस्य सिद्धान्ते सादृश्यं नातिरिच्यते । भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तत् ॥