मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 164, कुल 672 में से
संदर्भ में पढ़ें22 मानमेयरहस्यश्लोकवार्तिके चलन्ति दध्यवयवाः काले नातिदवीयसि । स्वेदादिनैव वर्षासु पूतरक्रिमिलक्षणाः ॥ गौरोऽहमस्मि स्थूलोऽहं कृशोऽहमिति सम्मताः । व्यवहाराश्चानुभवाः भूतचैतन्यसाक्षिणः ॥ अहं जानामीति मतिः शरीरमवलम्बते । इत्याहुरात्माऽप्रत्यक्षवादिनोऽपि हि तार्किकाः ॥ मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते । शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥ 2 चैतन्यं यदि शक्तिः स्यात् शक्तिशक्तिमतोर्यदा । भेदस्तदा शक्तिनाम्ना तत्त्वान्तरपरिग्रहः ॥ इति शङ्का नैव कार्या संघातशक्तिरिष्यते । ज्ञानं नाम पदार्थो यः स नास्त्येवेति तन्मतम् ॥ ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता । तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥ देहधातुविशेषो वा विकासो वाऽस्य कश्चन । ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥ हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् । एवमाद्यास्तु सर्वार्थसिद्धौ वादाः ह्यनूदिताः ॥ स एव भूतचैतन्यवादिनः परमाशयः । अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥