भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 165, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 165

सौगतात्मा 123 सुखदुःखेच्छादयोऽपि परिणामा हि भौतिकाः । संघातवेद्यास्ते सर्वे न संज्ञा प्रेत्य विद्यते ॥ भूतेभ्यश्च समुत्थाय तान्येवानुविनश्यति । इतिहि ब्राह्मणं येयं प्रेते संशय इत्यपि ॥ नाचिकेतानुयोगश्च सिद्धान्तं द्रढयत्यमुम् । एष देहात्मसिद्धान्तः सुराचार्यप्रवर्तितः ॥ चार्वाककृतभाष्यादिनिबन्धैः प्रचयं गतः । कामनीतिस्तेयशास्त्रप्रमुखं तस्य विस्तरः ॥ शेषः सिद्धान्तसारांशः सूचितः प्रायशः पुरा । प्रमेयसंग्रहे सोऽपि वैशद्यायावधार्यताम् ॥ (28) सौगतात्मा. 1 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा । ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥ ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥ गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना । न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ स्मृतिवत्परिहर्त्तव्यौ कृतनाशाकृतागमौ । तत्संतानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 165, कुल 672 में से · BharatKosha