मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 186, कुल 672 में से
संदर्भ में पढ़ें44 मानमेयरहस्यश्लोकवार्तिके सहसा जायते तच्च सहसैव विनश्यति । सूक्ष्मरूपादियुक्तं चेत् उत्प्रेक्षामात्रमेव तत् ॥ कललादिषु विज्ञानमस्तीत्येतच्च साहसम् । असंजातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥ यदि भूतेन्द्रियाधारा ज्ञानशक्तिः भवेत्ततः । तच्चैतन्यं प्रसज्येत नच जन्मान्तरं भवेत् ॥ परिणामविवेकाद्यैः शक्त्यभिव्यक्त्यनुग्रहात् । तेभ्य एव भवेद्बुद्धिः न बुद्ध्यन्तरपूर्विका ॥ अथाधारविनिर्मुक्ता शक्तिस्स्यात्कललादिषु । पश्चाद्विज्ञानसिद्ध्यर्थं आत्मा शक्त्यभिधो भवेत् 6 ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् । देहान्तरक्षमः कल्प्यः सोऽगच्छन्नेव योक्ष्यते ॥ शक्त्याधारप्रक्लृप्तौ वा नात्मनोऽन्यः प्रकल्प्यते । ज्वालाबुद्बुदवद्वृत्तिः नचाधाराद्विना धियाम् ॥ तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत् तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः ॥ 7 कृतं भूतेन्द्रियाणां च चैतन्यप्रतिषेधनम् । समस्तव्यस्तसंघातविवेकपरिणामिनाम् ॥ सांख्यादिभिरशुद्धत्वात् संघातात्सन्निवेशतः । मृतवच्च शरीरत्वात् भूतत्वाद्वाह्यभूतवत् ॥